नवदेहली। भारतने ओडिशाराज्यस्य चन्दीपुरस्थिते एकीकृतपरीक्षणक्षेत्रे (ITR) आणविकास्त्रवहनक्षमस्य अग्नि-४ मध्यमदूरप्रहारकप्रक्षेपास्त्रस्य सफलं परीक्षणं कृतम्। रक्षामन्त्रालयेन बुधवासरे एतस्य परीक्षणस्य सूचना दत्ता। सामरिकबलसेनायाः (Strategic Forces Command) नेतृत्वे परीक्षणमिदं सम्पन्नम्। परीक्षणेन प्रक्षेपास्त्रस्य सर्वे कार्यसम्बद्धाः तथा तकनीकीमापदण्डाः सफलतया परीक्षिताः।
रक्षामन्त्रालयस्य अनुसारम् एतत् परीक्षणं नियमितपरीक्षणस्य भागः आसीत्। अस्य उद्देश्यं प्रक्षेपास्त्रस्य विश्वसनीयतां कार्यसज्जतां च पुनः सुनिश्चितं कर्तुम् आसीत्। सफलपरीक्षणेन भारतस्य सामरिकप्रतिरोधक्षमता अधिका सुदृढा जाता तथा सामरिकबलसेनायाः सज्जता अपि प्रमाणिता।
अग्नि-४ मध्यमदूरप्रहारकं आणविकास्त्रवहनक्षमं प्रक्षेपास्त्रम् अस्ति। अस्य प्रहारपरिधिः प्रायः ४,००० किलोमीटरपर्यन्तम् अस्ति। अस्मिन् उन्नतवैमानिकीययन्त्राणि, रिङ्ग-लेजर-जाइरो-आधारितं जडत्वीयमार्गदर्शनप्रणाली तथा अनेकाः स्वदेशीयप्रौद्योगिकयः प्रयुक्ताः सन्ति। एताभिः प्रौद्योगिकीभिः प्रक्षेपास्त्रस्य लक्ष्यसाधनक्षमता तथा कार्यक्षमता उन्नीयते।
अग्नि-४ प्रक्षेपास्त्रे द्विचरणीयं ठोस-इन्धन-प्रेरणातन्त्रं प्रयुक्तम् अस्ति। अग्निश्रेण्याः पूर्ववर्तीप्रक्षेपास्त्रेभ्यः इदं हलुतरम् अस्ति। इदं मार्गे परिवहनीयम् अस्ति तथा कनस्तरात् अपि प्रक्षेपयितुं शक्यते। अतः आवश्यकता भवति चेत् इदं शीघ्रं अन्यत्र नीत्वा प्रक्षेपयितुं शक्यते।
विश्वसनीय-न्यूनतमप्रतिरोधनीतेः पुनः पुष्टिः
रक्षामन्त्रालयेन उक्तं यत् सफलपरीक्षणेन भारतस्य विश्वसनीय-न्यूनतमप्रतिरोधनीतेः पुनः पुष्टिः अभवत्। अस्याः नीत्याः उद्देश्यं विश्वसनीयां प्रतिरोधक्षमतां धारयितुं तथा सामरिकप्रक्षेपास्त्रबलानां कार्यसज्जतां निरन्तरं सुदृढां कर्तुम् अस्ति।
रक्षानुसन्धानविकाससंस्थायाः (DRDO) वरिष्ठवैज्ञानिकाः तथा सामरिकबलसेनायाः अधिकारीगणाः परीक्षणस्य निरीक्षणं कृतवन्तः। प्रक्षेपास्त्रस्य उड्डयनमार्गः राडार-यन्त्राणां, दूरमापनप्रणालीनां तथा विद्युत्-दृश्यनिरीक्षणकेन्द्राणां संयुक्तजालकेन निरीक्षितः।
एतेषां प्रणालीनां प्राप्तैः सूचनाभिः प्रक्षेपास्त्रं निर्धारितरीत्या कार्यं कृतवान् तथा परीक्षणस्य सर्वान् उद्देश्यान् सफलतया पूरितवान् इति सुनिश्चितम् अभवत्। नियमितेषु परिचालनपरीक्षणेषु सामरिकप्रक्षेपास्त्राणां विश्वसनीयतां परीक्ष्य भारतः स्वस्य प्रक्षेपास्त्रप्रणालीनां कार्यक्षमतां निरन्तरं सुदृढां करोति।











