नवदेहली। फ्रान्सदेशेन भारताय ११४ राफेल-बहुउद्देशीय-युद्धविमानानां प्रस्तावितक्रयणस्य विस्तृतः तकनीकी-वाणिज्यिकश्च प्रस्तावः प्रस्तुतः। प्रायः ३.२५ लक्षकोटिरूप्यकाणां मूल्यस्य अयं सौदः भारतस्य प्रमुखेषु रक्षाक्रयकार्यक्रमेषु अन्यतमः अस्ति। सम्प्रति रक्षामन्त्रालयस्य क्रयविभागः तथा भारतीयवायुसेना अस्य प्रस्तावस्य तकनीकीं वाणिज्यिकं च पक्षं परीक्षेते।
फ्रान्सस्य प्रस्तावस्य प्रमुखं वैशिष्ट्यम् अस्ति यत् ११४ राफेल-विमानेषु ९४ विमानानि भारतस्यैव भूमौ भारतीयोद्योगस्य सहयोगेन निर्मास्यन्ते। अस्मिन् निर्माणकार्यक्रमे फ्रान्सस्य डसॉल्ट एविशिएशन-संस्था सह एमबीडीए, सफ्रान् तथा थेल्स् इत्येताः प्रमुखाः रक्षाकम्पन्यः अपि भागं गृह्णीयुः।
भारतस्य स्थानीयउत्पादनं, प्रौद्योगिक्याः हस्तान्तरणं तथा स्वदेशीयसामग्रीणां अधिकोपयोगः इति विषयाः फ्रान्सस्य प्रस्तावे विशेषरूपेण महत्त्वपूर्णाः सन्ति। भारतं फ्रान्सदेशाय अस्मिन् वर्षे मई-मासे क्रयसम्बद्धं अनुरोधपत्रं (Letter of Request) प्रेषितवान् आसीत्। तदनन्तरं फ्रान्सेन एषः विस्तृतः प्रस्तावः प्रस्तुतः।
अस्य परियोजनायाः कारणेन भारतस्य विमाननिर्माणक्षेत्रस्य विकासः अधिकं भवितुं शक्नोति। टाटा, लार्सन् एण्ड् टुब्रो इत्यादीनां भारतीयकम्पनीनां तथा अन्येषां स्वदेशीय-रक्षानिर्मातृणां कृते अपि कार्यस्य अवसराः वर्धिष्यन्ते। सूत्राणामनुसारं भारतीयोद्योगस्य सहभागितया प्रायः १.६ लक्षकोटिरूप्यकाणां व्यापारस्य अवसरः उत्पद्येत।
स्वदेशीयास्त्राणां समायोजनस्य परीक्षणम्
११४ राफेल-विमानानां क्रयणस्य मुख्योद्देश्यं भारतीयवायुसेनायाः न्यूनतां गच्छन्तीं युद्धविमान-स्क्वाड्रन-सङ्ख्यां पूरयितुम् अस्ति। पुरातनानां मिग्-युद्धविमानानां क्रमशः सेवात्यागः तथा स्वदेशीय LCA Mk1A विमानानां प्रवेशे विलम्बः अस्य न्यूनतायाः प्रमुखकारणानि सन्ति। आगामी LCA Mk2 विमानस्य प्रवेशः अपि अपेक्षितः अस्ति।
राफेल-विमानं दीर्घकालीनवैश्विकप्रतिस्पर्धायाः अनन्तरं वर्षे २०१२ मध्ये रक्षामन्त्रालयेन चयनितम् आसीत्। ततः आरभ्य राफेल-विमानं भारतीयवायुसेनायाः प्रमुखेषु युद्धविमानेषु अन्यतमं जातम्।
रक्षामन्त्रालयस्य रक्षाक्रयपरिषद् (Defence Acquisition Council) प्रायः पञ्चमासपूर्वं ११४ राफेल-विमानानां क्रयणस्य प्रस्तावस्य अनुमोदनं कृतवती आसीत्। वर्षे २०२४ मध्ये रक्षासचिवस्य राजेशकुमारसिंहस्य पदग्रहणानन्तरं वायुसेनायाः युद्धक्षमतायाः पुनरवलोकनं प्रारब्धम् आसीत्। तदनन्तरम् एषः प्रस्तावः अग्रे नीतः।
भारते राफेल-विमानानां सङ्ख्या वर्धिष्यते
भारतीयवायुसेना तथा भारतीयनौसेना पूर्वमेव ६२ राफेल-विमानानां क्रयणस्य आदेशं दत्तवत्यौ स्तः। प्रस्तावितः ११४ विमानानां सौदः सफलः भवति चेत् भारतस्य राफेल-विमानानां कुलसङ्ख्या १७६ भविष्यति।
भारतीयनौसेनया विमानवाहकपोतानां कृते ३१ अतिरिक्त-राफेल-एम् युद्धविमानानां क्रयणे अपि रुचिः प्रकटिता अस्ति। एते विमानानि विमानवाहकपोतानां संचालनाय प्रयुज्येरन्। यदि एषः प्रस्तावः अपि कार्यान्वितः भवति, तर्हि भारतस्य सेवायां राफेल-विमानानां कुलसङ्ख्या २०० तः अधिका भवितुं शक्नोति।











