जेपीएससी-जेएसएससी-परीक्षासु कथितानियमितताविरुद्धं छात्राणां आन्दोलनं राँची-नगरे तीव्रतरम्

राँची, अगस्त् ५। झारखण्ड-लोकसेवा-आयोगस्य (JPSC) तथा झारखण्ड-कर्मचारी-चयन-आयोगस्य (JSSC) परीक्षासु कथितानियमितताविरुद्धं राँची-नगरे जयपालसिंहमुण्डा-क्रीडाङ्गणे छात्राणाम् आन्दोलनं दिने दिने तीव्रतरं भवति। आन्दोलनरतैः छात्रैः स्वमागणां पूर्त्यर्थम् आगामिनि वर्षाकालीनविधानसभासत्रे झारखण्ड-विधानसभायाः घेरावः करिष्यते इति घोषितम्।
आन्दोलनरताः छात्राः अवदन् यत् तेषां मुख्यमागणी कस्यचित् व्यक्तेः त्यागपत्रं नास्ति। अपितु कथितदूषितपरीक्षाणां निरस्तीकरणं तथा झारखण्डात् बहिःस्थितैः सेवानिवृत्तैः उच्चन्यायालयन्यायाधीशैः न्यायिकजाँचाया: आयोजनम् इति तेषां प्रमुखा मागणी अस्ति।
आन्दोलनकारिभिः प्रचलिता सीआईडी-अनुसन्धानप्रक्रिया अपर्याप्ता इति उक्तम्। छात्राः अपि अवदन् यत् एतद् आन्दोलनं कस्यापि राजनैतिकदलस्य आर्थिकसहाय्येन न प्रचलति। भोजनं जलपानं च स्थानीयमन्दिरैः सामाजिकसंस्थाभिश्च स्वेच्छया प्रदीयते।
विधानसभाघेरावस्य घोषणानन्तरं सीआईडी अस्मिन् प्रकरणे स्वकार्यवाहीम् अधिकां तीव्रां कृतवती। परीक्षानियमिततासम्बद्धे प्रकरणे अन्ये त्रयः जनाः गृहीताः न्यायिकहिरासते च प्रेषिताः।