वार्ताहरः – आचार्यः विशालप्रसादभट्टः
उपाकर्म इति वैदिकाध्ययनस्य पुनरारम्भस्य पवित्रः संस्कारः अस्ति।
श्रावणमासस्य पौर्णिमायां प्रायः द्विजैः विशेषतः ब्राह्मणैः उपाकर्म आचर्यते।
अस्य अपरं नाम वेदोपाकर्म इति।
१. उपाकर्म- ‘उपाकर्म’ इत्यस्य अर्थः—समीपे गत्वा कर्मणः आरम्भः अथवा पुनः आरम्भः।
अस्मिन् दिने वेदाध्ययनस्य नूतनः आरम्भः क्रियते।
अतः अयं दिवसः वैदिकविद्यायाः पुनरारम्भस्य प्रतीकः अस्ति।
२. उपाकर्मणः प्रयोजनम्
उपाकर्मणः मुख्यं प्रयोजनं वेदाध्ययनस्य पुनः प्रवर्तनम्, ऋषीणां स्मरणम्, स्वाध्यायस्य सङ्कल्पः तथा च पूर्वं कृतानां दोषाणां प्रायश्चित्तं च अस्ति।
३. ऋषितर्पणम् अस्मिन् दिने वेदस्य प्रवर्तकानां तथा ज्ञानपरम्परायाः ऋषीणां तर्पणं क्रियते।
ऋषिभ्यः कृतज्ञतां निवेदयित्वा तेषां ज्ञानपरम्परां स्मरामः।
४.यज्ञोपवीतधारणम् उपाकर्मणि पुरातनं यज्ञोपवीतं त्यक्त्वा नवीनं यज्ञोपवीतं ध्रियते।
नवीनयज्ञोपवीतधारणेन मनुष्यः शुद्धेन मनसा, नूतनेन सङ्कल्पेन च स्वाध्यायं कर्तुं प्रतिज्ञां करोति।
५. प्रायश्चित्तभावना वर्षस्य अवधौ अध्ययन-अनुष्ठानयोः सम्भावितानां दोषाणां निवारणार्थं प्रायश्चित्तकर्म क्रियते।
आत्मशुद्धिः, मनःशुद्धिः, आचारशुद्धिः च अस्य महत्त्वपूर्णाः अंशाः सन्ति।
६. वेदाध्ययनस्य महत्त्वम्
वेदाः भारतीयसंस्कृतेः मूलाधाराः सन्ति। वेदाध्ययनं केवलं मन्त्राणां पाठनं न, अपि तु धर्मस्य, कर्तव्यस्य, सदाचारस्य, सत्यस्य च ज्ञानम् अस्ति।
अतः उपाकर्मदिने स्वाध्यायस्य महत्त्वं विशेषतया स्मर्यते।
७. गुरोः महत्त्वम्
वैदिकपरम्परायां ज्ञानं गुरुमुखेन प्राप्यते। अतः उपाकर्मणि गुरून् प्रति श्रद्धा, कृतज्ञता तथा सेवाभावः प्रकट्यते।
८.आधुनिकजीवने उपाकर्मणः सन्देशः
उपाकर्म अस्मान् सततं शिक्षितुं, आत्मनिरीक्षणं कर्तुं, दोषान् परित्यज्य नूतनजीवनसङ्कल्पं कर्तुं च प्रेरयति। ‘स्वाध्यायः न प्रमदितव्यः’ इति भावः अस्य
उत्सवस्य मूलसन्देशः अस्ति।
श्रावणी उपाकर्म केवलं यज्ञोपवीतपरिवर्तनस्य पर्व नास्ति। अपितु एषः ऋषिपरम्परायाः स्मरणस्य, आत्मशुद्धेः, वेदाध्ययनस्य पुनरारम्भस्य, गुरुभक्तेः तथा ज्ञाननिष्ठायाः च पवित्रः संस्कारः अस्ति। अस्माभिः अस्य वास्तविकं तत्त्वं ज्ञात्वा स्वाध्यायं, सदाचारं, संस्कृतभाषायाः तथा भारतीयज्ञानपरम्परायाः संरक्षणं च कर्तव्यम्।











