संवादक:-प्रवेशकुमारशुक्ल:, जम्मू
केन्द्रीयसंस्कृतविश्वविद्यालयेन सञ्चालितस्य संस्कृताध्ययनकेन्द्रस्य पाठ्यक्रमस्य विषये विशेषः परिचय-चर्चाकार्यक्रमः राजकीय-महिला-महाविद्यालय परेड जम्मू इत्यत्र आयोजितः। अस्य कार्यक्रमस्य मुख्योद्देश्यम् आसीत् यत् विद्यार्थिनः संस्कृताध्ययनकेन्द्रस्य पाठ्यक्रमस्य, तस्योपयोगितायाः तथा वर्तमानसमये संस्कृतभाषायाः वर्धमानस्य महत्त्वस्य च विषये सम्यक् परिचयं प्राप्नुयुः।
कार्यक्रमस्य शुभारम्भः माता सरस्वत्याः पूजनेन दीपप्रज्वालनेन च अभवत्। केन्द्रशिक्षक: श्रीप्रवेशकुमारशुक्ल: वैदिकमङ्गलाचरणं प्रस्तुतम्। महाविद्यालयस्य छात्राभिश्च लौकिकमङ्गलाचरणं प्रस्तुतं कृत्वा कार्यक्रमस्य शुभतां वर्धितवत्यः।
कार्यक्रमे संस्कृतविभागस्य अध्यक्षा एवं केन्द्रप्रमुखा डा. ममताशर्मा इत्यनया राजकीय-महिला-महाविद्यालयस्य प्राचार्यं: डॉ. नवीनआनंद इत्येनं स्मृतिचिह्नं प्रदाय स्वागतं कृतम्। स्वागतोद्बोधने डा. ममताशर्मा इत्यनया संस्कृतभाषायाः महत्त्वं प्रकाशयन्त्या उक्तं यत् संस्कृतभाषा केवलं प्राचीनग्रन्थानां शास्त्राणां च भाषा नास्ति, अपितु सा भारतस्य समृद्धायाः ज्ञानपरम्परायाश्च महत्त्वपूर्णा संवाहिका अस्ति। वर्तमानसमये संस्कृतभाषायाः नवपीढ्या सह सम्बन्धस्थापनम् अत्यन्तम् आवश्यकम् अस्ति, येन विद्यार्थी स्वसंस्कृतेः, परम्परायाः, ज्ञानसम्पदश्च परिचयं प्राप्य आधुनिकसन्दर्भेष्वपि संस्कृतभाषायाः प्रयोगं कर्तुं शक्नुयुः।
तदनन्तरं केन्द्रशिक्षकेन श्रीप्रवेशकुमारशुक्ल: इत्यनेन संस्कृताध्ययनकेन्द्रस्य पाठ्यक्रमस्य विस्तृतः परिचयः प्रदत्तः। तेन पाठ्यक्रमस्य संरचना, अध्ययनस्योपयोगिता तथा विद्यार्थिनां कृते उपलब्धानां विविधसम्भावनानां विषये विस्तरेण परिचयं प्रदत्ता। तेन उक्तं यत् वर्तमानसमये संस्कृतस्य अध्ययनं केवलं परीक्षायै शैक्षणिकावश्यकतायै वा सीमितं नास्ति। संस्कृतस्य माध्यमेन विद्यार्थी भारतीयज्ञानपरम्परया, साहित्येन, दर्शनेन, योगेन, आयुर्वेदेन तथा जीवनमूल्यैश्च सह सम्बद्धाः भवितुं शक्नुवन्ति। तेन विद्यार्थिभ्यः संस्कृतभाषां सरलतया रुचिपूर्वकं च अधिगन्तुं तथा दैनिकजीवने संस्कृतस्य प्रयोगं वर्धयितुं च आह्वानं कृतम्।
सभाध्यक्षः डॉ नवीनआनंद: इत्यनेन विद्यार्थिभ्यः स्वलक्ष्यं प्रति जागरूकाः सततं प्रयत्नशीलाश्च भवितुं प्रेरणाप्रदः सन्देशः प्रदत्तः। तेन उक्तं यत् जीवने सफलतां प्राप्तुं स्पष्टं लक्ष्यं, अनुशासनं, निरन्तरं परिश्रमं तथा सकारात्मकदृष्टिकोणश्च अत्यावश्यकाः सन्ति। विद्यार्थिभ्यः प्रेरणां प्रदत्त: तेन उक्तं यत् प्रत्येकः विद्यार्थी स्वस्य रुच्यनुसारं क्षमतानुसारं च लक्ष्यं निर्धारित्य तस्य प्राप्तये निरन्तरं प्रयत्नं कुर्यात्।
संस्कृतभाषायाः महत्त्वं प्रकाशयन् तेन उक्तं यत् संस्कृतं भारतीयसंस्कृतेः, साहित्यस्य तथा ज्ञानविज्ञानस्य च महत्त्वपूर्णा आधारशिला अस्ति। वर्तमानसमये संस्कृतस्य अध्ययनं विद्यार्थिनः स्वस्य मूलैः सह संयोजयति तथा तेषु संस्कारान्, चिन्तनशक्तिं, ज्ञानस्य व्यापकदृष्टिं च विकसितुं साहाय्यं करोति। अतः विद्यार्थिभिः संस्कृतभाषायाः अध्ययनं केवलं शैक्षणिकविषयरूपेण न स्वीकृत्य तस्याः व्यापकां सांस्कृतिकां ज्ञानात्मकां च भूमिकां ज्ञातव्यम् इति तेन प्रतिपादितम्।
कार्यक्रमे संस्कृतभाषायाः वर्तमानकालिकमहत्त्वस्य विषयेऽपि चर्चा अभवत्। उक्तं यत् आधुनिकयुगे संस्कृतभाषायाः प्रासङ्गिकता निरन्तरं वर्धमाना अस्ति। शिक्षाक्षेत्रे, अनुसन्धानक्षेत्रे, भारतीयज्ञानपरम्परायां तथा सांस्कृतिकचेतनायां च संस्कृतस्य महत्त्वपूर्णा भूमिका अस्ति। विद्यार्थिषु संस्कृतभाषायाः प्रति रुचिं जनयित्वा तान् संस्कृताध्ययनाय प्रेरयितुं वर्तमानसमये महत्त्वपूर्णा आवश्यकता अस्ति।
कार्यक्रमस्य अन्ते डा. ममताशर्मा इत्यनया धन्यवादज्ञापनं प्रस्तुतम्। तया कार्यक्रमे उपस्थितानां सर्वेषाम् अतिथीनाम्, अध्यापकानां तथा विद्यार्थिनां प्रति कृतज्ञता प्रकटिता। तया संस्कृतेः संस्कृतभाषायाश्च महत्त्वं प्रकाशयन्त्या उक्तं यत् संस्कृतभाषा अस्माकं सांस्कृतिकचेतनां सुदृढां कुर्वती महत्त्वपूर्णा अस्ति। संस्कृतभाषायाः संरक्षणे संवर्धने च युवापीढ्याः भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति।
सभायाः कुशलमञ्चसञ्चालनं डॉ. नरेंद्रभारती इत्यनेन कृतम्। अन्ते डा. कामिनीशर्मा इत्यनया शान्तिमन्त्रस्य पाठेन सभायाः विधिवत् समापनं कारितम्।
अस्मिन् अवसरे डॉ. नीतूशर्मा, डॉ. सीमामलपोत्रा तथा अन्ये विभागीयाः समस्ताः अध्यापकाः, अन्ये अध्यापकगणाः, विभागीयाः छात्राः तथा अन्ये छात्राः उपस्थिताः आसन्।











