“नीमकरोली बाबा” इत्येतस्य जीवनाधारितं “हनुमान् अंश” इत्येतस्य सुप्रथितस्य चलच्चित्रस्य लोकार्पणं 07 अगस्त 2026 तमे दिनाङ्के चलच्चित्रगृहेषु जातम्।

वार्ताहरः – आचार्यः विशालप्रसादभट्टः

चलच्चित्रस्यास्य मुख्याः वार्ताः
निर्देशकः लेखकश्च – चलच्चित्रमिदं डॉ. विशाल चतुर्वेदिना लिखितं निर्देशितं निर्मितञ्च।
मुख्याः कलाकाराः – चलच्चित्रेSस्मिन् नीम करोली बाबा इत्येतस्य (लक्ष्मणनारायणस्य ) भूमिका शोभिनवसत्येन अभिनीता, तेन सह चन्दन आनन्दोSपि मुख्यभूमिकायां वर्तते।
कथानकम् – चलच्चित्रमिदं युवलक्ष्मणनारायणस्य प्रारम्भिककथाम् अनुसरति यो हि स्वतन्त्रतायाः पूर्वं भारते स्वमातुः मृत्योरनन्तरं भगवतः अन्वेषणे निजगृहं परित्यज्य अनन्तरं नीमकरोलीबाबा रूपेण परिवर्त्यते।
निर्माणव्ययः सफलता च- कोटिद्वयपरिमितेन धनेन अस्य चलच्चित्रस्य निर्माणं जातम्। लोकार्पणानन्तरं एकमासाभ्यन्तरे शतकोट्यधिकं धनम् अर्जयित्वा नूतनम् इतिहासं रचितम्। दर्शकेभ्यः चलच्चित्रमिदं बहु अरोचत।
अग्रिम भागस्य विस्तारः – चलच्चित्रस्य ऐतिहासिकसफलतायाः समनन्तरं निर्देशकेन अस्य विस्ताराय (हनुमान् अंश- 2) इत्येतस्य आधिकारिकी घोषणा कृता , यस्मिन् हि नीमकरोलीबाबा इत्येतस्य अग्रिमजीवनस्य तस्य जन्मस्थलस्य च कथा दर्शयिष्यते।