सेमिकॉन्-इण्डिया सम्मेलनम

प्रधानमन्त्री नरेन्द्रमोदी नवदिल्ल्याः यशोभूमि-परिसरे षड्विंशत्यधिक-द्विसहस्रतमस्य सेमिकॉन्-इण्डिया इत्याख्यस्य त्रिदिवसीय सम्मेलनस्य उद्घाटनम् अकरोत्। त्रिदिवसीयं सम्मेलनमिदं भारते सहकारस्य, निवेशस्य, नवाचारस्य, प्रतिभा विकासस्य च संवर्धनाय केन्द्रितमस्ति। अत्रावसरे भाषमाणः प्रधानमन्त्री अवोचत् यत् भारतस्य अर्धचालक- पारिस्थितिकी-तन्त्रं तीव्रगत्या प्रसरति, यच्च नवाचाराय, निवेशाय, विकासाय च नूतनान् अवसरान् उद्घाटयति ।
श्रीमोदी न्यरूपयत् यत् एकत्र भारतस्य अर्थव्यवस्था संवर्धते, अपरत्र च भारतमालक्ष्य वैश्विक- विश्वासोऽपि दृढीभवति। तेन प्रतिपादितं यत् समाह्वानपूर्णायां वैश्विक परिस्थितौ अपि भारतेन सप्त-दशमलव-अष्ट-प्रतिशतन्मितः वृद्धि-मानाङ्कः पञ्जीकृतः। अस्मिन्नेव काले जापान-देशस्य ऋण-मूल्याङ्कन-संस्थया भारतस्य सार्वभौम-ऋण-श्रेणी समुन्नयिता। प्रधानमन्त्री अवोचत् यत् देशस्य प्रत्येकं नागरिकः विकसित-भारतस्य निर्माणाय सङ्कल्पबद्धतया कार्यं करोति ।
अवसरेऽस्मिन् केन्द्रीय-इलेक्ट्रॉनिक्स्-सूचना-प्रौद्योगिकी-मन्त्री अश्विनी-वैष्णवः अवोचत् यत् क्षेत्रेऽस्मिन् आधारशिला स्थापिता अस्ति, अग्रे च सेमिकॉन्-2.0 इति योजनायाः माध्यमेन उद्योग-निर्माणं भविष्यति, या षट्सु प्रमुख स्तम्भेषु आधारिता अस्ति। एतेषु स्तम्भेषु अर्धचालक-अभिकल्पना, यन्त्राणि, स्मृति-घटकाः, सिलिकॉन्-तत्वम्, मिश्रित-तार्किक-निर्माण- घटकाः, अनुसन्धान-विकासौ च अन्तर्भवन्ति। मन्त्रिणा विज्ञापितं यत् सर्वकारेण भारते अर्धचालक-आवश्यकतानां सम्पूर्ण-क्षेत्रे चिप्-अभिकल्पनायै न्यूनातिन्यूनं द्विशतं नूतन-उद्यमान् संस्थाश्च समुपकर्तुं लक्ष्यं निर्धारितम्। अवधेयं यत् भारतस्य अभिकल्पना-सामर्थ्यं विश्व-विश्रुतम् अस्ति, अतः सेमिकॉन्- 2.0 इति योजनायाः अन्तर्गतं अर्धचालक-अभिकल्पना-संस्थानां संवर्धनमेव प्रमुखं लक्ष्यं भविष्यति।