राष्ट्रपतिः द्रौपदी-मुर्मुः, उपराष्ट्रपतिः सी.पी. राधाकृष्णन् इत्येतावद्य प्रधानमन्त्रिणे नरेन्द्र-मोदिने तस्य षट्सप्ततितमं जन्मदिवसे हार्दिक्यः शुभाशंसाः प्राकटयताम्। सामाजिक-सञ्चारपटले सन्देशं प्रेषयन्ती राष्ट्रपतिः मुर्मुः विगतेषु पञ्चविंशति-वर्षेषु श्रीमोदिनः अनुकरणीयां लोक-सेवाम् राष्ट्र-निर्माणाय च तस्य अभूतपूर्व योगदानं प्राशंसत्। उपराष्ट्रपतिना न्यरूप्यत यत् श्रीमोदिनः दूरदृष्टि-सम्पन्ने नेतृत्वे भारतं विश्वस्मिन् एकं प्रकाशमान-केन्द्रत्वेन विभाति, अथ च विश्वस्य तीव्रगत्या वर्धमानासु प्रमुख-अर्थव्यवस्थासु अन्यतमं वर्तते। अपरत्र काङ्ग्रेस अध्यक्षः मल्लिकार्जुन-खरगे, लोकसभायाः विपक्ष-नेता राहुल गान्धी चापि प्रधानमन्त्रिणं नरेन्द्र-मोदिनं जन्मदिवसस्य शुभाशयान् व्याहरताम्। सेवा-सङ्कल्प-अभियानम् – प्रधानमन्त्रिणः नरेन्द्र-मोदिनः सतत-सार्वजनिक-जीवनस्य लोकसेवा-व्रतस्य च पञ्चविंशति- वर्षीय-पूर्णताम् अवबुध्य भारतीय-जनता-दलस्य मासात्मकं देशव्यापी ‘सेवा-सङ्कल्प- अभियानम्’ अद्यप्रभृति अबाधित-प्रामाण्येन समालब्धम्। आगामि-मासस्य सप्तदश-दिनाङ्क यावत् आनुपूर्विक-क्रमेण प्रवर्तिष्यमाणस्य अस्य अभियानस्य प्रथमः दिवसः ‘सेवा-दिवसः’ इति सम्भाव्यते, यस्यान्तर्गतं देशस्य समस्त-प्रान्तेषु रक्तदान शिविराणि आयोजितानि। नवदेहल्यां दल-मुख्यालये दलाध्यक्षेण नितिन-नबीनेन रक्तदान शिविरस्य उद्घाटनं विहितम्, यत्र तेन सह अन्यैः वरिष्ठ-नेतृभिः कार्यकर्ताभिश्व स्वयम् अपि रक्तदानं सम्पादितम्। अपरञ्च देहल्यां मुख्यमन्त्रिण्या रेखा-गुप्तया खाटू-श्याम-मन्दिरे प्रधानमन्त्रिणः दीर्घायुषे निरोगतायै च हवन- पूजनम् समनुष्ठितम्। वार्ताहरान् सम्बोधयन्त्या तया प्रोक्तं यत् मोदिनः सेवा-भावस्य प्रेरणा- बलेन देहली-सर्वकारेण बहुविधाः जन-कल्याणकारिणः सर्वकारीय-कार्यक्रमाः समायोजिताः।











