वार्ताहर:- प्रवेशकुमारशुक्ल:, कानपुर
कानपुरस्य गौरवशालिनि ऐतिहासिकधरोहरस्वरूपे डी.ए.वी. महाविद्यालये, कानपुरे अद्य महाविद्यालयस्य प्राचार्यः प्रो.मनोज जौहरी महोदयः सरस्वत्याः प्रतिमायाः मालार्पणं दीपप्रज्वलनञ्च कृत्वा ‘दशदिवसीय संस्कृत सम्भाषण कार्यशाला’ इत्यस्याः उद्घाटनं कृतवान्। संस्कृतविभागस्य तत्त्वावधाने आयोजितेयं संस्कृतसम्भाषणकार्यशाला अद्य आरभ्य दशदिनपर्यन्तम् ऑनलाइनमाध्यमेन आयोज्यते। कार्यशालायां सम्प्रति सम्पूर्णदेशात् 207 विद्यार्थिनः पञ्जीकरणं कृतवन्तः। कार्यशालायाः पञ्जीकरणं निःशुल्कं निर्धारितम् अस्ति। कार्यशालायां केन्द्रीय संस्कृत विश्वविद्यालय, नईदिल्ली इत्यस्य प्रशिक्षकद्वयेन पलक औदीच्य (आनलाइन माध्यम) तथा सागर चौधरी (आफलाइन माध्यम) इत्याभ्यां प्रशिक्षणं प्रदास्यते।
उद्घाटनसत्रस्य अध्यक्षतां कुर्वन् प्रो.मनोज जौहरी, प्राचार्यः, डी.ए-वी.कालेज, कानपुर इत्येषः संस्कृतस्य प्रचार-प्रसाराय कार्यशालामिमां अत्यन्तोपयोगिनीं प्रतिपाद्य संस्कृतस्य व्यावहारिकतां ज्ञातुं, अधिगन्तुं स्वजीवने च प्रयोक्तुं सर्वान् प्रेरितवान्। सः अवदत् यत् भारतीयज्ञानपरम्परां संस्कृतभाषा सुरक्षितवती अस्ति। अधुना संस्कृते निहितानां गूढरहस्यानां ज्ञानं तेषां च अवबोधनं आवश्यकम् अस्ति। तदर्थं संस्कृतस्य सामान्यज्ञानं सूक्ष्मताश्च अस्यां कार्यशालायां ज्ञातुं शिक्षितुं च अवसरः प्राप्स्यते।
संस्कृतविभागस्य विभागाध्यक्षः प्रो. विनोद कुमार पाण्डेय संस्कृतं संस्कारप्रदायिनीं भाषाम् इति प्रतिपाद्य मानवजीवनं त्रिविधकष्टेभ्यः मोक्तुं संस्कृतस्य दार्शनिकपक्षस्य महत्त्वं सार्थकं उपयोगि च निरूपितवान्। संस्कृतस्य प्रारम्भिकज्ञानस्य अधिगमाय कार्यशालेयं अत्यन्तं हितकारिणी इति सः अभिप्रेतवान्।
कार्यशालायाः उद्घाटनसत्रे महाविद्यालयस्य वरिष्ठप्राध्यापकः प्रो.अनुराग सक्सेना, चीफप्राक्टरः प्रो.लोकेश सक्सेना, छात्र कल्यणा अधिष्ठाता प्रो. पंकज टंडन, नामिनी प्राचार्यः प्रो. रोमल सक्सेना, वरिष्ठप्राध्यापकः प्रो. एस. एस. कालरा, आई क्यू ए सी कोआर्डिनेटरः डा.सुरेन्द्र प्रताप सिंह, डा.अमित द्विवेदी तथा योगप्रशिक्षिका कंचन गुप्ता इत्यादयः शिक्षकगणाः उपस्थिताः आसन्।
कार्यशालायाः संयोजकः डा. सवितुर प्रकाश गंगवार दशदिवसीयकार्यशालायाः रूपरेखां प्रस्तुतवान् तथा प्रतिदिनं प्रशिक्षणसत्रे उपस्थितिं दत्त्वा प्रशिक्षणस्य लाभं स्वीकर्तुं सर्वान् प्रेरितवान्।
कार्यक्रमस्य सञ्चालनं प्रशिक्षकः सागर चौधरी कृतवान्। उद्घाटनसत्रे 44 प्रशिक्षवः भौतिकरूपेण प्रतिभागं कृतवन्तः। कार्यक्रमस्य समापनावसरे संयोजकः डा.सवितुर प्रकाश गंगवार सर्वेभ्यः आगन्तुकेभ्यः, वरिष्ठप्राध्यापकेभ्यः प्रशिक्षुभ्यश्च धन्यवादं ज्ञापितवान्।











