उत्तराखण्डसंस्कृतसंस्थानस्य उपाध्यक्षपदे डॉ. नवीनचन्द्रपन्तः कार्यभारं स्वीकृतवान्

वार्ताप्रेषकः- आचार्य डॉ. गणेश फोन्दणी

उत्तराखण्डसंस्कृतसंस्थानम् (उत्तराखण्डसर्वकारः)
रानीपुरझाल, ज्वालापुरम्, हरिद्वारम्।
प्रेसविज्ञप्तिः
दिनाङ्कः — १५ अक्टूबर २०२६, गुरुवासरः
हरिद्वारम्। उत्तराखण्डसंस्कृतसंस्थानस्य उपाध्यक्षपदे डॉ. नवीनचन्द्रपन्तः संस्थानस्य षष्ठः उपाध्यक्षः सन् कार्यभारं स्वीकृतवान्। अस्मिन् अवसरे संस्थानस्य सचिवः प्रो. विनयकुमारविद्यालङ्कारः संस्थानस्य पक्षतः नवनियुक्तस्य उपाध्यक्षस्य डॉ. पन्तस्य स्वागतं कृतवान्।
डॉ. पन्तः उत्तराखण्डप्रदेशस्य द्वितीयराजभाषायाः संस्कृतस्य सर्वाङ्गीणविकासं स्वकीयां प्राथमिकतां निरूप्य अवदत् यत् प्रदेशे संस्कृतभाषायाः पुनरुत्थानाय संस्कृतविद्वद्भिः कृतानां सङ्घर्षाणां सः सहयोगी साक्षी च आसीत्। संस्कृतभाषायाः संरक्षणाय संवर्धनाय च कार्यं कुर्वतः प्रत्येकस्य व्यक्तेः सम्मानः संरक्षणं च तस्य प्राथमिकतासु अन्तर्भवतः इति अपि सः अवदत्।
अस्मिन् अवसरे संस्थानस्य वित्ताधिकारिणी श्रीमती मायादेवी, शोधाधिकारी डॉ. हरीशचन्द्रगुरुराणी, प्रकाशनाधिकारी किशोरीलालरावतूडी, प्रशासनिकाधिकारिणी श्रीमती लीलारावत्, संस्थानस्य अन्ये अधिकारिणः कर्मचारीणश्च उपस्थिताः आसन्। उत्तराखण्डविश्वविद्यालयस्य प्रतिनिधयः, संस्कृतविद्यालयानां महाविद्यालयानां च प्राचार्याः, शिक्षकाः तथा संस्कृतानुरागिणः अपि डॉ. पन्तस्य स्वागतं कृत्वा तस्मै शुभकामनाः प्रदत्तवन्तः।