वार्ताप्रेषकः- कुलदीपमैन्दोला
उत्तराखण्ड-संस्कृत-संस्थानहरिद्वारद्वारा राजकीयमहाविद्यालयस्य जखोली-रुद्रप्रयागजनपदे संस्कृतमासमहोत्सवस्य उपलक्ष्ये “भारतीय-ऋषीणां वैज्ञानिकचिन्तनम्” इत्यस्मिन् विषये एकदिवसीया सङ्गोष्ठी सफलतया सम्पन्ना।
कार्यक्रमस्य शुभारम्भः दीपप्रज्वलनेन वैदिकमङ्गलाचरणेन च अभवत्। प्रास्ताविकमुद्बोधनं संस्थानस्य सचिवेन प्रो. विनयविद्यालङ्कारमहाभागेन कृतम्। तेन उक्तं यत् भारतीय-ऋषीणां ज्ञान-विज्ञानपरम्परा अद्यापि विश्वस्य मार्गदर्शिका वर्तते। सः मञ्चासीनाः सर्वाः विदुषीः सम्मानपूर्वकमभिनन्दितवान्। सङ्गोष्ठ्याः मुख्यवक्त्री डा. कमलाभारद्वाजमहाभागा वेदेषु निहितं खगोलशास्त्रं, गणितं, आयुर्वेदं, पर्यावरणविज्ञानं, सृष्टिविज्ञानं, चिकित्साविज्ञानं तथा यज्ञविज्ञानं विस्तरेण निरूपितवती। तया प्रतिपादितं यत् ऋषिभिः सहस्रवर्षपूर्वमेव वैज्ञानिकसिद्धान्ताः प्रतिपादिताः, येषां अन्वेषणं आधुनिकविज्ञानमद्यापि करोति।
विशिष्टातिथिः डा. प्रीति अवदत् यत् ऋषीणां चिन्तनं केवलमाध्यात्मिकं न, अपितु पूर्णतया वैज्ञानिकं तार्किकं च आसीत्। मुख्यातिथिः डा. इन्दिराजुगराणमहाभागा विद्यार्थिनः संस्कृतस्य वैज्ञानिकस्वरूपं ज्ञातुं प्रेरितवती।
कार्यक्रमे महाविद्यालयस्य प्राचार्या डा. माधुरी उपस्थितासीत्। अध्यक्षतां हिन्दीविभागाध्यक्षः डा. सुभाषकुमारः अकरोत्। संयोजिकायाः डा. भारत्याः तथा सहसंयोजिकायाः कुमारी सुमनायाः नेतृत्वे कार्यक्रमस्य सफलसञ्चालनम् अभवत्।
अस्यां सङ्गोष्ठ्यां प्रायः ८० प्रतिभागिनः सहभागिनोऽभवन्। रुद्रप्रयाग:, ऋषिकेश:, टिहरी, पिथौरागढ:, हल्द्वानी, चम्पावत:, देहरादूनं, बडकोट:, पुरोला, उत्तरकाशी, कोटद्वारं तथा हरिद्वारादिभ्यः आगताः प्राध्यापकाः, शोधछात्राः, विद्यार्थिनः च उत्साहेन सहभागीभूताः। अन्ते संस्कृतविभागप्रभारी संयोजिका डा. भारती समस्तेषामतिथीनाम् आभारं व्यक्तवती।











