अङ्कीयनवाचारक्षेत्रे भारतस्य प्रगतिः; आत्मनिर्भरता भविष्यस्य सङ्कटानां च सज्जता च प्रधानमन्त्रिणा प्रतिपादिता
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे अवदत् यत् वैश्विकव्यवस्था तीव्रतया परिवर्तते, किन्तु संयुक्तराष्ट्रसङ्घादीनि अन्तर्राष्ट्रीयसंस्थानानि एतेषां परिवर्तनानां अनुरूपं गतिं प्राप्तुं सङ्घर्षन्ते। व्यापारः, प्रौद्योगिकी, समुद्रमार्गाश्च अधुना दबावस्य साधनानि शस्त्रवत् च प्रयुज्यमानाः सन्ति इत्यपि तेन उक्तम्।
नवदेहल्यां आयोजिते ‘एनडीटीवी वर्ल्ड समिट् २०२६’ इति सम्मेलने भाषमाणः मोदी अवदत्— “यः विश्वः पूर्वं भारतस्य बौद्धिकसामर्थ्यम् आश्रितवान्, सः अधुना भारतस्य चिन्तनसामर्थ्येऽपि विश्वासं करोति। अतः वयं विश्वस्य कृते केवलं पृष्ठकार्यालयरूपेण न, अपि तु बौद्धिककार्याणां प्रमुखकेन्द्ररूपेण अपि कार्यं कुर्मः।”
प्रधानमन्त्रिणा उक्तं यत् भारतम् अधुना अङ्कीयनवाचारस्य नवोद्यमानां च परिसरतन्त्रस्य क्षेत्रयोः प्रमुखेषु राष्ट्रेषु अन्यतमम् अस्ति। भारतं विश्वस्य प्रमुखेषु अर्थतन्त्रेषु सर्वाधिकवेगेन वर्धमानम् अर्थतन्त्रम् अपि अस्ति। भारतं सामूहिकविकासस्य दिशि विश्वं प्रेरयति इति सः अवदत्।
सर्वकारस्य नीतिनिर्माणे निवेशसम्बद्धनिर्णयेषु च देशस्य दीर्घकालीनहितं प्रमुखतया विचार्यते इति मोदी स्पष्टम् अकरोत्। भारतस्य क्षमतानां विकासः, विदेशेषु निर्भरतानां न्यूनीकरणम्, भविष्ये सम्भाव्यमानानां सङ्कटानां सामना कर्तुं पूर्वसज्जता च प्रत्येकस्य निर्णयस्य आधारभूताः विचाराः सन्ति इति तेन प्रतिपादितम्। केचन निवेशाः वर्षाणाम् अनन्तरमेव फलानि ददति, तथापि ते राष्ट्रस्य भविष्याय अत्यन्तम् महत्त्वपूर्णाः भवन्ति इत्यपि सः अवदत्।
औषधनिर्माणक्षेत्रस्य उदाहरणं दत्त्वा प्रधानमन्त्री उक्तवान् यत् भारतम् औषधानां उत्पादनक्षमतायाः कृते विश्वविख्यातम् अस्ति। तथापि कतिपयवर्षेभ्यः पूर्वं औषधनिर्माणार्थम् आवश्यककच्चपदार्थानां प्राप्तये भारतं विदेशीयायातेषु बहुधा निर्भरम् आसीत्। अधुना तु एतस्याः स्थितेः परिवर्तनाय देशः प्रयतते। एतेन भारतस्य आत्मनिर्भरता सुदृढा भविष्यति तथा भविष्यस्य आवश्यकतानां पूर्तये अपि देशः अधिकं समर्थः भविष्यति इति प्रधानमन्त्रिणः वक्तव्यस्य आशयः।











