नेतन्याहुः भारत-इस्राएलयोः दीर्घकालीनमैत्रीसम्बन्धान् प्रशशंस
नवदेहली। इस्राएलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहुः गुरुवासरे भारतस्य प्रधानमन्त्री नरेन्द्रमोदीम् इस्राएलस्य स्वातन्त्र्यदिवससमारोहे भारतीयविमानचालकेन स्मितमच्छरेण सह मशालप्रज्वालनाय आमन्त्रितवान्।
सामाजिकमाध्यमे ‘एक्स्’ इत्यत्र प्रकाशिते सन्देशे नेतन्याहुः अवदत् यत् प्रधानमन्त्री मोदी आमन्त्रणाय तं धन्यवादम् अयच्छत्। उभौ देशौ भूमौ आकाशे च आतङ्कवादस्य विरुद्धं संयुक्तरूपेण संघर्षं कुर्वन्ति इति मोदी अवदत्। सः भारत-इस्राएलयोः दीर्घकालीनान् दृढान् च मैत्रीसम्बन्धान् अपि प्रशशंस।
प्रधानमन्त्री मोदी अपि नेतन्याहुना सह दूरभाषेण सम्भाषणस्य वृत्तान्तं प्रकाशितवान्। द्विपक्षीयसम्बन्धानां निरन्तरविकासस्य समीक्षां कृत्वा उभौ देशौ स्वसाझेदारीं अधिकं दृढीकर्तुं स्वप्रतिबद्धतां पुनरुद्घोषितवन्तौ। पश्चिम एशियायाः साम्प्रतिकपरिस्थितीनाम् अपि विचारविनिमयं कृत्वा तस्मिन् क्षेत्रे शान्तेः स्थैर्यस्य च शीघ्रं पुनःस्थापनस्य आवश्यकतायां बलं दत्तवन्तौ।











