वार्ताहरः-प्रवेशकुमारशुक्लः
केन्द्रीयसंस्कृतविश्वविद्यालयस्य लखनऊ-परिसरे रामनवमीमुपलक्षीकृत्यायोज्यते वाल्मीकिरामायणस्य किष्किंधाकाण्डस्य द्विदिवसीयपारायणम्। डा. प्रदीप दीक्षितस्य पौरोहित्ये शिक्षाशास्त्रविभागाध्यक्षाः – प्रो. लोकमान्य मिश्रैः परिसरीय समस्ताचार्यैः निर्विघ्नतार्थमादौ गणेशाम्बिकयो: अयोध्यानाथस्यार्चनञ्च कृत्वा पाठस्य प्रारम्भमकुर्वन् । परिसरस्याचार्याः प्रो. देवी प्रसाद द्विवेदी, प्रो. धनीन्द्र झा , प्रो. मदनमोहन पाठक, प्रो. शिशिर पाण्डये , डा. प्रमोदकुमारशुक्लश्चान्याः आचार्याः उपस्थितोSसन्। शिक्षाशास्त्र विभागस्य छात्राध्यापकाः अंकित, संदीप, अरुण, पंकज, विशाल , राहुल, भवनेशादयः समस्तविभागीयच्छात्राः आसन् । राजज्योति, प्रज्ञा, शिल्प्यादयः सर्वाः वाल्मीकिरामायणस्यान्तर्गते किष्किंधाकाण्डस्य पारायणं कृतवन्तः।











