जहांगीरपुरी दिल्ली-आरक्षि-बलेन जहांगीर-पुरी-हिंसा-प्रकरणे चतुर्दश-जनाः निगडिताः। गोलिका-प्रहारस्य दोषी अपि अत्र सम्मिलितः अस्ति। आरक्षिबलानुसारं दोषिणः भुशुण्डिका प्राप्ता, अन्वीक्षण-प्रक्रिया च प्रवर्तमाना अस्ति। इतः प्राक् दिल्या: आरक्षि-आयुक्तः उक्तवान् जहांगीरपुरीक्षेत्रे स्थितिः इदानीं नियन्त्रणाधीन अस्ति। आरक्षिबलं विधि-व्यवस्थायाः प्रकल्पनार्थं संवेदनशीलक्षेत्रेषु दृष्टिं सन्धारयति । अत्रान्तरे उत्तर-पश्चिम-दिल्या: आरक्षि-उपायुक्तेन क्षेत्रे शान्ति-व्यवस्था सुनिश्चेतुं जहांगीरपुरी महेन्द्रपार्क-आदर्शनगर-स्थलानां अमन-समितेः सदस्यैः सह एका मन्त्रणा अपि समाचरिता। उपवेशनावधौ सदस्या: निज-निज-क्षेत्रेषु शान्ति स्थापनार्थं निवेदितवन्तः ।
जहांगीरपुरी-हिंसा-प्रकरणे साम्प्रतं यावत् त्रयोविंशतिजनाः निगडिताः। अस्य मासस्य षोडशे-दिनांके दुरापादितायाम् हिंस्र-घटनायां अष्टारक्षि-कर्मिण: समेत्य एकः जनः चापि व्रणिताः आसन्। वार्ताहरान् सम्बोधयन् दिल्यारक्षि-आयुक्तः राकेश अस्थाना प्रतिपादितवान् यत् दुर्घटना-स्थलस्य अन्वीक्षण-प्रक्रियान्तर्गतम् अन्ये चापि कतिपय-जनाः दुर्घटनायां संदिग्धत्वेन अभिज्ञाताः। दोषिणाम् विरोधे कार्याचरणार्थं वयं सजवं कार्यं समाचरामः।











