गृहे एकः मूषकः प्रविष्टः। प्रथमं पितमह्या दृष्टः । “मूषकः!” सा आसन्दस्य उपरि आरुह्य आक्रुष्टवती। उपधानानि भूमौ पतितानि। “”
“कुत्र?” वातायनम् आरुह्य अपृच्छत् पिता। सः यवनिकाः भूमौ पातितवान्। “तत्र!” उत्पीठिकायाः उपरि स्थित्वा आक्रोशं कृतवती माता। स्थालिकाः महता शब्देन भूमौ पतिताः।
“तं गृहाण!” मिथुनः मार्जालम् आदिष्टवान्। मार्जालः मूषिकं दृष्ट्वा मञ्चस्य अधः पलायत।
“मूषकः!” मार्जालम् अनुधावन् आक्रुष्टवान् मिथुनः। “अहं निष्कासयिष्यामि” माता सधैर्यम् अवदत् । सा सम्मार्जनीं गृहीत्वा मूषकस्य दिशि बहुधा नुदितवती ।
“मूषकः!” आक्रुष्टवान् पिता। “तव पृष्ठतः!”
माता मूषकं दृष्ट्वा मञ्चस्य अधः पलायत! “किं करणीयम् इति अहं जानामि!” इति उक्त्वा पितामही आसन्दात् कूर्दितवती । सा एकां दिनपत्रिकां दण्डवत् पुटीकृत्य इतस्ततः नुदितवती। “मूषकः!” आक्रुष्टवान् पिता। सः वातायने इतोऽपि उपरि आरूढवान्। “भवत्याः वामतः!” पितामही मूषकं दृष्ट्वा मञ्चस्य अधः पलायत! “अहो बत!” मन्दम् अवदत् पिता। इतोऽपि उपरि आरोढुं न शक्यते। मूषकस्य दृष्टेः स्वं रक्षयन् सावधानेन अवरुह्य सोऽपि मञ्चस्य अधः पलायत!
“गृहे मूषकः प्रविष्टः!” सर्वे मिलित्वा आक्रुष्टवन्तः । तेन शिशुः जागरिता। निद्रालुः सा नेत्रे मार्जयन्ती कटे उपविष्टवती। किम् अस्ति तत् उपधाने?
द्वेनेथे चार पादा दीर्घः पुच्छ चा “मूषकः।” हर्षेण सकरताडनम् अवदत् शिशुः शिशु मूषक दीक्षितमती मूषकः पलायत शिशुः तम् अनुभावितवती
आसन्दस्य उपरि कूर्दित्वा, वातायनम् आरुह्य, उत्पीठिकायाः उपरि कूर्दित्वा, उपधानेषु उत्पत्य…. यवनिकायाः मध्ये धावित्वा, स्थालिकायाः उपरि, द्वारात् बहिः!











