प्रधानमन्त्री नरेन्द्र मोदी गुजरातस्य जामनगरे डब्ल्यु एच ओ ग्लोबल सेन्टर फॉर ट्रेडिशनल मेडिसिन इति केन्द्रस्य शिलान्यासम् कृतवान्

प्रधानमन्त्री नरेन्द्र मोदी जामनगरे डब्ल्यु एच ओ ग्लोबल सेन्टर फॉर ट्रेडिशनल मेडिसिन इति केन्द्रस्य शिलान्यासम् कृतवान्। अत्रांतरे मॉरिशस देशस्य प्रधानमन्त्री प्रवीन्दकुमारजगन्नाथ: अथ विश्व स्वास्थ्य संगठनस्य महानिदेशक: टेड्रोस घेब्रे येसस् अपि सहभागं कृतवन्तौ। अत्रान्तरे विश्व स्वास्थ्य संगठनस्य महानिदेशक: गुजरात भाषायाम् स्वीसंबोधनम् आरब्धवान्। एतस्य विश्वस्य प्रथम पारंपरिक औषध-केन्द्रस्य स्थापनाय प्रधानमन्त्रिणे शुभकामना: प्रदत्तवान्।
प्रधानमन्त्री बनास-डेयरी परियोजनानाम् आधारशिलां अपि स्थापितवान्। प्रधानमन्त्री नरेन्द्र मोदी उत्तर-गुजरातस्य बनासकाठा-जनपदे देवदरस्य बनास-डेयरी संकुले नैकासां विकास परियोजनानाम् आधारशिलां स्थापितवान्। अत्रान्तरे तेन दियोदरे निर्मित न्यू डेयरी परिसर अथ आलूक प्रसंस्करण संयन्त्रं राष्ट्राय समर्पितवान्। एतस्य निर्माण प्रायः षट्शतं कोटितः अपि अधिक-मुद्रायाः व्ययः संजातः अस्ति। एतस्मिन् संयन्त्रे प्रतिदिनं प्राय: त्रिंशत्-लक्ष-लीटर-परिमितस्य दुग्धस्य प्रसंस्करणं विधास्यते। तत्रैव अन्येषां चापि डेयरी-वस्तूनां उत्पादनं विधास्यते। आलूक-प्रसंस्करण संयन्त्रे आलूकस्य विभिन्न-प्रसंस्कृत-उत्पादानां निर्माण भविष्यति। एतेषु नैकेषाम् उत्पादनानां अन्ये देशेषु अपि निर्यातं भविष्यति । एतेन स्थानीय कृषका: सबलाः भविष्यन्ति, ग्रामीणार्थ-व्यवस्था च सुदृढा भविष्यति । युगपदेव प्रधानमन्त्री बनास-सामुदायिक रेडियो स्टेशन इति सुविधाम् अपि आरब्धवान्। एतस्य उद्देश्यं कृषकेभ्यः कृषि-पशुपालनेन सम्बद्धानां प्रमुख वैज्ञानिक-सूचनानां प्रदानम् अस्ति। एतेन प्रायः सप्त शताधिक-ग्रामाणां पंचलक्षतः अपि अधिका: कृषका: योजयिष्यन्ते। अत्रावसरे प्रधानमन्त्री बनासकांठा-वास्तव्यानां कठिन-श्रमं प्रशंसितवान्। अत्रावसरे गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलः, राज्यसभा सांसद: सी आर् पाटिल, अथ बनास-डेयरी इत्येतस्य अध्यक्षः शंकर चौधरी: च निज विचारान् उपस्थापितवन्तः ।