देशस्य बृहत्तमा प्रश्नोत्तरी प्रतियोगिता ‘सबका विकास महा क्विज़’ इत्येतस्याः शुभारम्भो जातः। अस्याः उद्देश्यं प्रशासनस्य विभिन्न-योजनाः सुशासनं च आश्रित्य नागरिकेषु जागरूकता-उत्पादनम् अस्ति। कोविड-महामारी-कारणेन निर्धनानां जीवने समागतानि समाह्वानानि न्यूनीकरणदृशा प्रारब्धाः इमाः योजनाः वर्तन्ते । कोऽपि निर्धनः अथ वा किमपि गृहं बुभुक्षितः न स्यात् एतदेव अस्याः योजनायाः प्रमुखम् उद्देश्यम् अस्ति। सूचना-प्रौद्योगिकी-मन्त्रालयेनोक्तं यत् अस्याः प्रश्नोत्तरी प्रतियोगितायाः शुभारम्भः भारत-रत्न-डॉ बाबासाहेब भीमराव अम्बेडकरस्य जयन्त्यवसरे कृतः अस्तिा इयं प्रतियोगिता अस्य मासस्य अष्टाविंशति-दिनाङ्कं यावत् प्रचलिष्यति। अत्यधिक-अङ्क-प्राप्तकर्तृभ्यः अधिकतम-एक-सहस्र-प्रतिभागिभ्यः प्रत्येकस्यां
प्रश्नोत्तरी प्रतियोगितायां विजेतारः चेष्यन्ते । मन्त्रालयेनोक्तं यत् प्रत्येकं चयनित-विजेत्रे द्विसहस्र-रूप्यकाणि अपि प्रदास्यन्ते। इमां प्रतियोगितां www.mygov.in इत्यत्र क्रीडितुं शक्यते











