आयुष्मान-भारत-स्वास्थ्य-कल्याण-केंद्रैः जनान् समुचित-चिकित्सा-सौविध्य-प्रदान-क्रमे अभूतपूर्वाः उपलब्धि: समर्जिता। अस्य मासस्य षड्विंशतिः सप्तविंशतिः च दिनांकयोः केन्द्र-प्रशासनस्य महत्त्वकांक्षिण: टेलीमेडिसिनयोजनाया: उत वा ई-संजीवनी-टेलीपरामर्श-योजनाया: अन्तर्गतं पंचाशत्सहस्राधिक-त्रिलक्षं जनाः पंजीकरणं कृतवन्तः । स्वास्थ्य मन्त्रालयेन संसूचितं यत् स्वास्थ्य केन्द्रेषु एकस्मिन्नेव दिवसे साम्प्रतं यावत् सर्वाधिक संख्यायाम् जनै: ई-संजीवनी-सौविध्याय सम्पर्क: साधितः। एतदतिरिच्य गतयोः द्विदिवसयो: ई-संजीवनी-सेवाया: षड्सप्तति लक्षाधिका: रोगिण: लाभं गृहीतवन्तः। अवधेयं वर्तते यत् ई-संजीवनी इति टेलीपरामर्श: ग्रामीण क्षेत्रेषु सामान्य विशिष्ट-स्वास्थ्य-क्षेत्रेषु सेवाम् प्रदातुं चिकित्सकानाम् एका परामर्श-सेवा वर्तते ।











