भारतस्य औषध-महानियन्त्रकेण बालानां कृते कोवैक्सीन्-सूच्यौषधस्य आपदुपयोगाय औपचारिकी अनुमतिः प्रदत्ता

भारतस्य औषध-महानियन्त्रकेण बालानां कृते कोवैक्सीन्-सूच्यौषधस्य आपदुपयोगाय औपचारिकी अनुमतिः प्रदत्ता। सूच्यौषधमिदं भारत-बायोटेक समवायेन विकसितम् अस्ति। अत्र षट् आरभ्य द्वादशायुवर्षीया: बाला: सम्मिलिताः सन्ति । एकस्मिन् ट्वीट् सन्देशे केन्द्रीय: स्वास्थ्यमन्त्री डॉ. मनसुख माण्डविया उक्तवान् यत् औषध-महानियन्त्रकेण जाएकोविड् सूच्यौषधस्यापि आपदुपयोगाय औपचारिकी अनुमति: प्रदत्ता अस्ति। अत्र क्रमे द्वादशवर्षायुवर्गीयाः बालाः एतत् सूच्यौषधस्य मात्रा द्वयं स्वीकर्तुं शक्नुवन्ति।