मार्कण्डेय शारदेयः (पटना, बिहारस्थः)
‘इदं शरीरं परमार्थ- साधनं धर्मैकहेतुं बहुपुण्य- लब्धम्।
लब्ध्वाऽपि यो न विदधीत धर्मं मुधा भवेत् तस्य नरस्य जीवितम्’।।
‘प्रफुल्ल- पङ्केरुह- राशिमाराद् विहाय भृङ्गाः चिकुरेषु यस्याः।
स्फुरन्त्यहो योऽत्र तया रमेत नो मुधा भवेत् तस्य नरस्य जीवितम्’।।
कस्य नरस्य? योगिनः, किमुत भोगिनः? कः श्रेयान्, योगी भोगी वा? उपर्युक्ते श्लोकद्वये द्विपक्षीया वार्ता जाता। पूर्वा योगपक्षतः, तु परा भोगपक्षतः।
रागात्मकं संसारं विहाय विरागीभूते संसारे प्रविष्टो नवयुवको योगाचारी कश्चित्।तस्मिन् मुग्धया कयाचित् स्त्रिया प्रेरितोऽपि न भोगोन्मुखो योगं परित्यज्य। तत्पुरुषाय योगो महत्तरः, स्त्रिये च भोगः। अतएव पारस्परिको विवादो जातः। सत्यमेव-
‘यद्यस्य नास्ति रुचिरं तस्मिन् तथा मनोज्ञेऽपि।
रमणीयेऽपि सुधांशौ न मनः कामाः सरोजिन्यः’।।
युवकाभिरुचिः विपरीता, कामिन्या अपि। तस्माद् एकोऽपरम् उपेक्षते।
‘उभयी प्रकृतिः कामे सज्जेदिति मुनेः मनः।
अपवर्गे तृतीयेति भणतः पाणिनेः अपि’।।
धन्या मैथुनासक्तिः, या मिथुनधर्मं विताय मोक्षधर्मं नपुंसकत्वाधिगताय पुरुषाय स्त्रिये च निर्धारयति। येन केन प्रकारेण च पाणिनिम् अपि उत्थाय पाटयति स्वस्मिन् पथि। प्रकृष्ट- ज्ञानिनः प्रति धिक्कृत्य ताँश्च सम्बोध्य कथयति भोगाऽनसक्तानां कल्पित-पुनर्जन्मतां खण्डयति च-
‘कः शमः क्रियतां प्राज्ञाः प्रियाप्रीतौ परिश्रमः।
भस्मीभूतस्य भूतस्य पुनरागमनं कुतः’।।
यादृशी यत्प्रकृतिः तादृशीयं जगती दृश्यते इति सत्यम्। तस्माद् एव माया-मोहलिप्तौ सर्वत्र तदर्हता बुध्यते। विरक्तानां च सर्वथा विरक्तिरेव। विरक्तौ इयं भावना समुदेति भयात्-
‘भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद् भयं
मौने दैन्यभयं बले रिपुभयं रूपे जराया भयम्।
शास्त्रे वादभयं गुणे खलभयं काये कृतान्ताद् भयं
सर्वं वस्तु भयावहं भुवि नृणां वैराग्यमेवाभयम्’।।
यावत् कस्मिंश्चिद् विषये वस्तुनि वा जुगुप्सा नायाति, तावत् कुतः विरक्तिः ? भोगाद् योगोऽपि जायते। तस्माद्धि पार्थिव-सुखसमापन्नो भर्तृहरिः विरक्तौ ‘धिक् ताञ्च तञ्च मदनञ्चेनाञ्च माञ्चे’ति कथयामास। सर्वसुखोपभोगं त्यजञ्जगाम वनम्। नीतिज्ञः शृङ्गारे बद्धः, शृङ्गाराद् वैराग्यं लेभे। महद्दस्यू रत्नाकरोऽपि वाल्मीक्यम् अधिजगाम। किमधिकम्, विविधानि उदाहरणानि एतादृशानि।
योगाद् भोगोऽपि जायते। एतादृशानि अपि उदाहरणानि सन्ति। विश्वामित्रो मेनका-मायायाः पिञ्जरे शुकत्वम् अगच्छत्। योगीश्वर इति नाम्ना प्रसिद्धो महेश्वरो विष्णोः मोहिनी-रूपोपरि आसक्तो जातः। पाराशरस्य जन्मकथा का? अत उभयावेष्टितम् इदं जगत्।
यत्रास्ति योगो नहि तत्र भोगो यत्रास्ति भोगो नहि तत्र योगः इति कथनम् अपि विचार्यम्। किं योगे भोगस्य, भोगे योगस्य नैव स्थितिः? विरोधात् पारस्परिक- प्रकृत्योः अपि भिन्नता? नैवम्। अतोऽसांसारिकः सांसारिकः सन् वदति-
‘धैर्यं यस्य पिता क्षमा च जननी शान्तिः चिरं गेहिनी,
सत्यं सूनुरयं दया च भगिनी भ्राता मनःसंयमः।
शय्या भूमितलं दिशोऽपि वसनं ज्ञानामृतं भोजनम्
एते यस्य कुटुम्बिनो वद सखे कस्माद् भयं योगिनः’।।
धैर्य- क्षमा- शान्ति- सत्य- दया- मनःसंयमात्मक- पितृ- मातृ- पत्नी- पुत्र- भगिनी- भ्रातृयुक्तः कुटुम्बो यस्य किमसौ योगे भोगं नहि गच्छति?
‘धर्मे तत्परता मुखे मधुरता दाने समुत्साहिता
मित्रेऽवञ्चकता गुरौ विनयिता चित्तेऽतिगम्भीरता।
आचारे शुचिता गुणे रसिकता शास्त्रेऽतिविज्ञानिता
रूपे सुन्दरता हरो भजनिता सत्स्वेव सन्दृश्यते’।।
किमेवं कोऽपि भोगी योगी नहि भवितुम् अर्हति?अतः भोगेऽपि योगः, योगेऽपि भोगश्चेति। तर्हि पुनः प्रश्नः समुदेति, कस्य नरस्य जीवितं मुधा? सांसारिकं सुखं परिहाणं युक्तम् अयुक्तं वा?कथम् इह अपार- धन-धान्य-संसाधनं तिरस्करणीयम्? कथं वरं व्याघ्र-गजेन्द्र- सेवनम्? वल्कल- वस्त्रधारणम्, भूम्युपवेशनं कथम्? कथं कन्द-मूल- फलभक्षणम्? कथं यम- नियमासन- प्राणायाम- प्रत्याहार- धारणा- ध्यान- समाधि- रूपाष्टाङ्ग- योगग्रहणम्?कथं नहि भौतिकसुखम् आपन्नम्?कथं नहि पारिवारिक- सामाजिक- परिवृत्तौ प्रवर्तनम्?यदि तुल्यौ द्वौ? पुनः शङ्का जायते यत् किं तृतीया- प्रकृतिस्था एव योगिनः कामात्मकगत्याः अभावात्? ये भूताः, भवन्ति, भविष्यन्ति च योगमार्गानुचराः सर्वे नपुंसका एव?
प्रश्नोपरि प्रश्नः, पुनः पुनः प्रश्नश्चोदेति विषयेऽस्मिन्। पूर्वं योगप्रकृतिः भूयो द्रष्टव्या। को योगः? युज्यते इति योगः?युनक्ति, युङ्क्ते इति वा? दिवादि- गणीय- युज- समाधौ धातोः भवति यो ‘योगश्चित्तवृत्ति- निरोधः’ इत्याख्यः पातञ्जल- योगदर्शनस्य सूत्रस्य मूलप्रकृतिः। अपरो युजिर्योगे धातोर्भूतो रुधादिगणीयत्वात्। तृतीयश्च चुरादिगणीयो बन्धने निद्रायां च युजः भवति। तस्माद् योजयतीति योगः।
सर्वे योगाः, जन्मस्थानस्य वैपरीत्याद् अपि। सामान्यतोऽत्र युज् समाधौ इत्यवबोधक एव योगः।अतो देह-देहिनोः एकरूपता।द्वयोः एकरूपतयैव कार्ये कुशलो भवति जनः। युक्तियुक्ता श्रीकृष्णवाणी- ‘योगः कर्मसु कौशलम्’। ज्ञानाय शरीर-मनसोः अभिन्नता ज्ञानयोगः, कर्मणि तयोः अभिन्नता कर्मयोगः। एवं सर्वे योगाः। योगशास्त्र-स्थानका मुद्रा अपि तथैव। शारीरिकाणि सर्वद्वाराणि संयम्य गतिमतः मनसः गत्याः अवरोधत्वाद् हि योगाभ्यासः क्रियते। तस्यां दशायाम् एव ‘तस्य नो जायते मृत्युः नास्य जरादिकं तथा। नाग्नि- जलभयं तस्य वायोरपि कुतो भयम्’ उपलब्धिरियं लभ्यते।
शृङ्गार-रसस्थौ संयोग-वियोगौ अपि ईदृशौ। आभ्यां शब्दाभ्याम्, आभ्यां रसाभ्याञ्च तल्लीनता बोध्या।संयोगः सम्यग्योगत्वात्, तु वियोगो विगत- योगत्वाच्च।तस्माद्वियोगी विचलितमनाः, तु संयोगी स्थितमनाः।अतः संयोगावस्थायां यदा पुरुषस्त्रियोः एकाग्रत्वम् इन्द्रियाणि गच्छन्ति। तदापि अलौकिक- सुखानुभूतिः।इत्थम् अभ्यस्यैव अर्धनारीश्वरो भगवान् योगेश्वर इति नाम्ना विश्रुतः।
‘यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्’।।
अनुसृत्येदं भगवद्वाक्यं भोगेऽपि योगो जायते।
‘यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया
कण्ठः स्तम्भित-वाष्पवृत्ति- कलुषः चिन्ताजडं दर्शनम्।
वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः
पीड्यन्ते गृहिणः कथं न तनया- विश्लेषदुःखैः नवैः’।।
एवं ब्रुवन् शाकुन्तलस्थः कण्वो गृहिवद् दृश्यते। अतः सांसारिक- लीलानटस्य इव प्रवृत्तिः भोगमयी।
अस्तु, योगभोगयोः समताऽवलोक्यते। योगोऽपि वरो भोगोऽपि। नहि वरतरः कोऽपि। विषयिणः प्रकृतिः विषयात्मिका, तु अविषयिणः प्रकृतिः अविषयात्मिका। तस्मात् स्व-स्व-पथि गच्छन्ति।यथा यस्य रुचिः, तत्करोति सः। मानवीय- गुणोपेतो भोगी एव योगी, मानवता-रहितो योगी अपि योगी नहि। को मानवीय- गुणोपेतः? तु, यो महापुरुषैः निर्दिष्टं धर्ममार्गम् अनुसरति सः। यस्य चित्तवृत्तिः निरोधनेऽपि विचलति, स योगिवेषम् आपन्नत्वोऽपि नहि योगी। अतः ईदृशस्य पुरुषस्य मुधा जीवनम्। पुनः यो धर्मं न चरति, गुरूपदिष्टं नियमं न आचरति, तस्य जीवितं मुधेति नात्र संशयः।











