फ्रांस देशे सद्यः सञ्जाते निर्वाचने एमैनुअल मैक्रों द्वितीय कार्यकालाय पुनः राष्ट्रपतिः भविष्यतीति परिणाम: सम्प्राप्तः, प्रधानमन्त्री श्रीमोदी च तस्मै वर्धपनानि अयच्छत्

फ्रांस देशे सद्यः सञ्जाते निर्वाचने एमैनुअल मैक्रों द्वितीय कार्यकालाय पुनः राष्ट्रपतिः भविष्यतीति परिणाम सम्प्राप्तः । तेन प्रतिद्वन्द्वनं मारिन लूपेनं पराजितम्, यो हि दक्षिणपन्थीति निगद्यते। श्रीमैक्रों अष्टपञ्चाशतधिक प्रतिशतं मतदानम् अलभत्। चतुश्चत्वारिंशत् वर्षीयः श्रीमैक्रों द्वितीयकार्यकालाय निर्वाचित: फ्रांसस्य प्रथमः राष्ट्रपतिः भविष्यति। प्रधानमन्त्री श्री मोदी तस्मै वर्धपनानि अयच्छत् ।