फ्रांस देशे आयोक्ष्यमाणे कान् फिल्मोत्सवे भारतम् आधिकारिक सम्मानितदेशः भविष्यति

फ्रांसे कान- फिल्म महोत्सवेन सह आयोजिते आगामि मार्शे-डू-चलच्चित्रे भारतम् आधिकारिकरूपेण सम्मानितः देश: भविष्यति । महोत्सवोऽयं मईमासस्य सप्तदशदिनाङ्कादारप्स्यते सूचनाप्रसारण-मन्त्री अनुरागठाकुरः नवदिल्ल्यां सम्वाददातृसम्मेलने अस्य घोषणां कृतवान् प्रोक्तवान् यत् भारत-फ्रांसयोर्मध्ये सः राजनयिकसम्बन्धानां पञ्चसप्तति वर्षाणि पूर्यन्ते । प्रधानमत्रिणः नरेंद्रमोदिनः पेरिसयात्रा अपि च राष्ट्रपतिना इमैनुअल-मैक्रों इत्यनेन सह तस्य वार्तोपवेशनेन इदमायोजनम् इतोऽपि महत्वपूर्ण जातम् । सः इदमपि प्रोक्तवान् यत् प्रथमेवावसरोऽयं यदा कस्मैचित् देशाय एतादृशं सम्मानं प्रदास्यते । श्रीठाकुर: प्रोक्तवान् यत् कान नेक्स्ट इत्यस्मिन्नपि भारतं सम्मानितराष्ट्रस्य पदेनालङ्कृतमस्ति यस्यान्तर्गतं दृश्य-संवादोद्योगे पञ्चनूतनेभ्यः स्टार्ट-अप्स इत्येतेभ्यः अग्रे प्रयातुं अवसरः प्राप्स्यते । अस्मिन् महोत्सवे भारतपक्षतः आर. माधवनेन निर्मितं चलच्चित्रं ‘रॉकेटरी’ इत्येतत् अपि आकर्षणकेन्द्रं भविष्यति । भारताय ‘गोज सेक्शन इत्यस्मिन् चितानां पञ्चचलच्चित्राणां प्रदर्शनाय अनुमतिः प्रदत्ता ।