उपायेन शक्यं सर्वम् ( पञ्चतन्त्र कथा )

कस्मिंश्चित् अरण्ये भासुरकः नाम सिंहः वसति स्म । सः अतीव शक्तिशाली भासुरकः प्रतिदिनम् अनेकान् मृगान् विना कारणं मारयति स्म । एतेन वनस्य अन्ये मृगाः कष्टम् अनुभवन्ति स्म ।
अतः एकदा ते मृगाः सम्भूय गत्वा भासुरकं प्रार्थितवन्तः ते “स्वामिन् विना कारणम् एवं मृगाणां मारणेन भवतः कः लाभः ? एकस्य एव मृगस्य खादनेन भवतः उदरं पूर्णं भवति किल ? अतः अद्य आरभ्य भवतः आहारार्थं प्रतिदिनम् एकं मृगं वयमेव प्रेषयिष्यामः । भवान् तं मृगं खादतु अन्यान् मृगान् न पीडयतु” इति ।
तदा भासुरकः उक्तवान् – “तथैव अस्तु । परन्तु यस्मिन् दिने मम समीपं मृगः न आगमिष्यति, तस्मिन् दिने सर्वान् अपि मृगान् मारयिष्यामि एव” इति ।
मृगाः तत् अङ्गीकृतवन्तः ततः आरभ्य प्रतिदिनं जातिक्रमेण एकः मृगः भासुरकस्य आहारत्वेन गच्छति स्म । भासुरकः तं खादति स्म अन्ये मृगाः निर्भयम् अरण्ये सञ्चरन्ति स्म ।
कदाचित् जातिक्रमेण केनचित् शशकेन भासुरकस्य आहाररूपेण गन्तव्यम् आपतितम् । सः शशकः दुःखेन सिंहसमीपं प्रस्थितवान् । मार्गे एकः कूपः आसीत् कूपस्य उपरि गमनसमये शशकः
स्वस्य प्रतिबिम्बं तत्र दृष्टवान् । तदा तस्य मनसि कश्चन उपायः स्फुरितः । ‘अहं भासुरकम् एतस्मिन् कूपे पातयिष्यामि’ इति चिन्तयन् सः विलम्बेन भासुरकस्य समीपं गतवान् ।
‘अद्य मृगः समये न आगतः’ इति भासुरकः अतीव कुपितः आसीत् । तदा शशकः मन्दं मन्दं गत्वा प्रणम्य तस्य पुरतः स्थितवान् । तं तर्जयन् भासुरकः उक्तवान् – “रे शशकाधम ! समये आगन्तव्यम् इति परिज्ञानं नास्ति वा भवतः ? भवान् विलम्बं कृतवान् किल ? अतः प्रथमं भवन्तं खादित्वा अनन्तरं सर्व मृगकुलमेव नाशयिष्यामि” इति ।
तदा शशकः विनयेन उक्तवान् – “स्वामिन् ! मया अपराधः न कृतः । भवतः समीपं समये आगन्तव्यम् इत्येव अहं प्रस्थितः । परन्तु मार्गे अन्यः एकः सिंहः आसीत् । सः मां दृष्ट्वा पृष्टवान् ‘भवान् कुत्र गच्छति ?’ इति । ‘भासुरकस्य आहारार्थं गच्छामि’ इति अहम् उक्तवान् । तदा सः उक्तवान् – ‘एतत् मम अरण्यम् । अत्र सर्वे अपि मृगाः मम आज्ञां पालयेयुः । भासुरकः कुत्र अस्ति ? सः चोरसिंहः स्यात् । भवान् तम् अत्र आनयतु आवयोः मध्ये युद्धं भवतु युद्धे यः जयति सः एव भवन्तं खादतु’ इति । तस्य सूचनानुसारम् अहम् अत्र आगतवान् । अतः एव विलम्बः जातः” इति ।
“एवम् !! तर्हि तं सिंहम् इदानीम् एव मारयामि । सः कुत्र अस्ति ? प्रदर्शयतु” इति भासुरकः उक्तवान् । शशकः तं कूपसमीपं नीतवान्, कूपं प्रदर्शितवान् च ।
भासुरकः तत्र जले स्वस्य प्रतिबिम्बं दृष्टवान् । क्रोधेन गर्जनं कृतवान् । कूपतः इतोऽपि उच्चैः प्रतिध्वनिः आगतः । भासुरकः तं प्रतिबिम्बमेव स्वस्य प्रतिस्पर्धिनं मत्वा तं मारयितुं तस्य उपरि आक्रमणं कृतवान् ।
कूपमध्ये पतितः सः जले निमग्नः मृतः च ।