प्रधानमंत्री नरेन्द्र मोदी मुम्बई महानगरे आयोक्ष्यमाणे मास्टर दीनानाथ मंगेशकर पुरस्कार समारोहे सहभागं अकरोत्। अत्रावसरे सः प्रथमः लता मंगेशकर पुरस्कारः च प्राप्तवान् । अयं पुरस्कारः भारत रत्न बहुमानालंकृतायाः लता मंगेशकरवर्यायाः स्मरणे प्रदीयते। अयं पुरस्कारः प्रतिवर्षं राष्ट्राय विहितं महत्वपूर्णम् अनुकरणीयम् च योगदानम् अवलम्ब्य प्रदास्यते । पुरस्कार प्रदानस्य घोषणां कुर्वन् मास्टर दीनानाथ मंगेशकर स्मृति प्रतिष्ठानं अकथयत् यत् श्री मोदी अंताराष्ट्रीयः राजनेता अस्ति, सः विश्व पटले देशस्य कुशलं नेतृत्वं विहितवान् अस्ति।











