प्रधानमन्त्री नरेन्द्रमोदी यूरोपीय देशत्रयस्य सफलयात्रानन्तरं दिल्लीं सम्प्राप्तवान्। विंशति-द्वाविंशतितमाब्दस्य प्रधानमन्त्रिणः इयं प्रथमा विदेशयात्रा आसीत् । जर्मनस्य राजधान्यां बर्लिने श्रीमोदी जर्मनचांसलर-इत्यनेन ओलाफशोल्ज़ेन सह द्विपक्षीयसम्वादं कृतवान् अपि च द्वावेव नेतारौ ‘षष्टम-भारत-जर्मनान्तर-सर्वकारीय-परामर्शोपवेशनस्य’ अध्यक्षं कृतवन्तौ । जर्मने दिसम्बरमासे नूतनसर्वकार-निर्माणानन्तरं द्वयोः देशयोर्मध्ये इदं प्रथमं अन्तस्सर्वकारीय-विमर्शोपवेशनम् आसीत्। श्रीमोदी शोल्ज़ संयुक्तरूपेण एकं च भारतीयसमुदायम् अपि व्यावसायिककार्यक्रमं सम्बोधितवन्तौ । प्रधानमन्त्री जर्मनदेशे सम्बोधितवान् अपि च जनैः सह सम्वादमकरोत् । यात्रायाः द्वितीयेचरणे श्रीमोदी डेनमार्कस्य राजधानी कोपेनहेगनं सम्प्राप्य द्वितीये भारत-नॉर्डिक-शिखर सम्मेलने भाग गृहीतवान् | सः डेनमार्कस्य प्रधानमन्त्रिणा मेटे-फ्रेडरिकसनेन सह द्विपक्षीयसम्वादं क्वीन मार्ग्रेट द्वितीयेन सह मेलनं च कृतवान् । प्रधानमन्त्रिणः डेनमार्कयात्रावधौ द्वावेव पक्षौ प्रगतिविषयिकीं समीक्षां कृतवन्तौ । यात्रायां प्रधानमन्त्री भारत-डेनमार्क-व्यापारमञ्चे अपि भागं गृहीतवान् अपि च भारतीयान् सम्बोधितवान् द्वितीये भारत-नॉर्डिक-शिखर सम्मेलने श्रीमोदी अन्य-नॉर्डिक नेतृभिः सह सम्वादमकरोत् ।
डेनमार्क-फिनलैण्ड-आईसलैण्ड स्वीडन-नॉर्वे-राष्ट्राणां प्रधानमन्त्रिणः अपि अस्मिन् सम्मेलने भागं भजितवन्तः । कोपनहेगने वार्ताहरान् सम्बोधयन् विदेशसचिवः विजयमोहनक्वातडा प्रोक्तवान् यत् सम्मेलनात्पूर्व प्रधानमन्त्री नरेन्द्रमोदी फिनलैण्ड-आईसलैण्ड-स्वीडन-नार्वेराष्ट्राध्यक्षैः सह वार्ताम् अकरोत् । सः प्रोक्तवान् यत् सर्वप्रथमः प्रधानमन्त्री नार्वेदेशस्य प्रतिनधिना सह वार्ताम् अकरोत् अपि च वार्तायाः विषयाः नवीकरणीयोर्जा-हाईड्रोईलैक्ट्रिक्-हरित-हाईड्रोजन-प्रौद्योगिकी-निवेश-सम्बद्धाः आसन्। नरेन्द्रमोदिना कोपेनहेगने डेनमार्कस्य प्रधानमन्त्रिणा मेटेरीया वार्तास्त-लमण्डनेन सह शिष्टफ्रिडरिक्स विहिता अपि च द्वावेव नेतारौ हरित रणनीतिक-सहयोगस्य प्रगतिविषये समीक्षां कृतवन्तौ । ध्यातव्यं यत् भारत-डेनमार्कयोः मध्ये इयं प्रथमसन्धिः वर्तते।
संयुक्तलनेसम्मे-संवाददातृ- डेनमार्कस्य प्रधानमन्त्री उक्तवती यत् द्वयोः देशयोर्मध्ये उपवेशनं अत्यधिकसार्थकं आसीत् सहैव सा भारत-डेनमार्कयोः मध्ये
सुदृढसम्बन्धान प्रतिपादितवती ।
प्रधानमन्त्री कोपेनहेगने भारत-नॉर्डिक-शिखर सम्मेलनात् पृथक्तया नॉर्वेदेशीयं प्रधानमन्त्रिणं जोनस-गहर-स्टोरम् अमिलत् । उभौ अपि नेतारौ उभयपाक्षिक संबन्ध-संबद्ध-गतिविधीनां समीक्षां, भविष्ये सहयोगस्य क्षेत्राणां विषये च विचारणां कृतवन्तौ। चर्चा-विषयेषु एते अन्यतमाः आसन्-नीलार्थ-व्यवस्था, अक्षयोर्जा, हरित-हाइड्रोजन-वातिः , सौर-पवनोर्जा-परियोजनाः, मत्स्य- पालनं, जल-प्रबन्धनं, वर्षाजल-संचयनम्, अन्तरिक्ष सहयोगः, स्वास्थ्य-संस्कृति-दीर्घावधिकाधारभूत संरचना-निवेश-सदृशेषु क्षेत्रेषु सहयोग-संवर्धन संभानाः चेत्योदयः। एतदतिरिच्य, क्षेत्रीय-वैश्विक-विकास-विषये अपि उभाभ्यां नेतृभ्यां चर्चितम्। स्वप्रत्यावर्तनयात्रायां श्रीमोदी किञ्चित् कालं यावत् पेरिसं सम्प्राप्य फ्रांस-राष्ट्रपतिना इमैनुएलमैक्रों इत्यनेन सह मेलनं कृतवान् ।











