प्रधानमन्त्री नरेन्द्रमोदी केरलस्थस्य ब्रह्म-विद्यानलयस्य शिवगिरी-यात्रायाः स्वर्ण जयन्त्याः च नवतितमस्य वर्षपूर्त्यवसरस्य अवसरे एवं कार्यक्रमं सम्बोधितवान्।
सः उक्तवान् यत् श्रीनारायण गुरु: भारतस्य आध्यात्मिक: गुरुः अस्ति यः देशस्य सांस्कृतिक-रिक्थे अथ नैतिकमूल्येषु अमूल्यं योगदानं कृतवान्।
प्रधानमन्त्री कथितवान् गुरोः जन्मस्थली-कारणात् केरलस्य भूमिः पवित्रा अस्ति। श्री मोदी गत सप्ताहे केरलराज्ये शिवगिरी तीर्थयात्राया: नवतितमे वर्षपूर्त्यवसरे अथ ब्रह्म-विद्यालयस्य स्वर्ण-जयन्ति-उद्घाटन समारोहं सम्बोधयति स्म। अत्रावसरे स: नवति-समारोहाय एकं प्रतीक-चिनं अपि लोकर्पितवान्। आगामिने एकवर्षावधौ विभिन्नेषु देशेषु च नवति-समारोहम् उपलक्ष्य कार्यशालाः सम्मेलनानि च आयोजयिष्यन्ते। अत्रावसरे केन्द्रीय मंत्री वी.मुरलीधरन्, राजीव-चन्द्रशेखरः, श्रीनारायण-धर्म-संघम न्यायस्य अध्यक्ष: स्वामी सच्चिदानन्दः अथ महासचिवा स्वामि-ॠऋतम्भरानन्दा उपस्थिताः आसन्। प्रधानमन्त्री प्रतिपादितवान् यत् श्रीनारायणगुरु: आधुनिकतायाः, संस्कृतेः, मूल्यानां च समृद्ध्यर्थं कार्य चकार । तेन न केवलं शिक्षाविज्ञानं प्रतिपादितं प्रत्युत सहस्रवर्ष-पुरातनी-परम्परा, धर्म आस्थादि-विषयाः अपि सम्वर्धिताः।











