अक्षयतृतीयायाः शुभपुण्यप्रदकाले उत्तराखण्डस्थयो: गंगोत्री-यमुनोत्री इत्यनयोः धार्मिकस्थानयो: पोर्टलाख्ये- बेवफलके समुद्घाटिते

उत्तराखण्डस्थयोः गंगोत्री-यमुनोत्री धाम्नो: दर्शनोत्सुका: श्रद्धालव: वेबफलकद्वारा स्थानारक्षणे सक्षमाः प्रभवन्ति। अद्यारभते अक्षयतृतीयायाः पुण्यप्रदकाले श्रद्धालवः तदर्थ स्थानारक्षण-कर्तुं शक्ष्यन्ति। अनेनैव सह राज्ये चतुर्णा धाम्नां यात्रा अपि समारब्धा । एतां यात्रामभिलक्ष्य प्रशासनेन सर्वविधसन्नद्धताः सन्ति सुनिर्धारिताः। आरक्षिबलानि च सुरक्षायै नियोजिताः सन्ति। यत्र केदारनाथधाम इत्यस्यकृते च वेबफलकं शुक्रवासरे उद्घाटयिष्यते। तत्रैव बद्रीनाथाय च पूर्णतः रविवासरत: उद्घाटयिष्यते।