संस्कृतभारतीसंस्थया प्रान्तीयसमीक्षायोजनागोष्ठ्या आयोजनं भवति

(वार्ताहरः-प्रवेशकुमारशुक्लः)

अये दिव्यगिरवाणवाण्यनुरागिणः यथा भवन्तो विदन्त्यैव यत् संस्कृतभारतीसंस्थया प्रतिवर्षे एकबारं प्रान्तीयसमीक्षायोजनागोष्ठ्या आयोजनं भवति तथैवास्मिन् वर्षेSपि केन्द्रीयसंस्कृतविश्वविद्यालयस्य सभागारपरिसरे २०७९ विक्रमाब्दस्य बैशाख-शुक्ल–चतुर्दशीतः पूर्णिमा पर्यन्तम् (१५-५-२२ तः १६-५-२२ पर्यन्त अवधप्रान्तस्य संस्कृतभारतीप्रान्तसमीक्षायोजनागोष्ठ्यत्यस्यायोजनमजायत्। गोष्ठ्यारम्भो मंगलानुशासनेन दीपप्रज्जवालनेन चाभवत्। अस्मिन् कार्यक्रमस्याध्यक्षाः के. सं. वि. वि. लखनऊपरिसरस्य निदेशकाः प्रो० सर्वनारायण झावर्याः मुख्यातिथिरूपेण समागताः डा. रामचन्द्र शुक्लमहोदयाः।सभा सञ्चालकः संस्कृतभारत्याः प्रान्तसंगठनमन्त्रिणः डा गौरव नायकमहोदयेनोक्तं

  • जुलाईमासे सुप्तशक्तिजागरणाभियानम्
  • २/६/22 आरभ्य १३/६/२२ पर्यन्तं यावत् श्री विनायक कान्वेंट स्कूल अमौसी रेलवेस्टेशन इत्यस्थाने शिक्षकवर्गो भविष्यति ।
  • सरला-सुगमा-सरसा परिक्षा फरवरीमासे परिक्षायोजनम्। एतायागामिकार्यक्रमाणां सन्दर्भे सूचनाः प्रदत्ताः।
    संगोष्ठीसमापनावसरे प्रो. एम. चन्द्रशेखरेण निगदितं संस्कृत-संस्कृतिश्च संरक्षणोपायाः के सन्ति इति बोधितम् । अन्ते चांशूमहोदयेन धन्यवादज्ञापनं कृतम्।