अशेषे हि देशे बुद्धपूर्णिमा हर्षोल्लासेन आमान्यते। बौद्धमतावल्बिनां कथनानुसारं खीताब्द पूर्वं त्रिषष्ट्यधिक पंचशत् वर्षपूर्वं वैशाखपूर्णिमायां सद्यस्तन नेपालदेशस्य लुम्बिनी इत्याख्ये ग्रामे भगवतः बुद्धस्य जन्म राजकुमार सिद्धार्थ गौतमः रूपेण अजायत। तदीय: जन्मोत्सव: वैशाखी-बुद्धपूर्णिमा वैशाखपूर्णिमा वा। अवधेयास्पदं वर्तते यत् वैशाख मासस्य पूर्णिमातिथि: बौद्धमतावलम्बिनां कृते अतीव महत्त्वपूर्णा भवति। ध्यातव्यम् अस्ति यत् राजकुमार: सिद्धार्थ: बौद्ध संवत् अनुसार, हिन्दू विक्रम संवत् अनुसार वैशाखमासस्य पूर्णिमायां लुम्बिनी ग्रामे बभूव। तस्य बोधिवृक्षस्य सानिध्ये ज्ञानप्राप्तिः तस्मिन् एव दिवसे वैशाखपूर्णिमायां बोधगयायां बुद्धत्वं प्राप्तवान्। लोकं सत्पथि अनुवर्तितुं पंचचत्वारिंशत् वर्षानन्तरं यदा असौ अशीति वर्षीयः जातः तदा कुशीनगरे असौ वैशाख पूर्णिमायां एव पंचत्वं विलीनः।
अयं दिवस: अशेषविश्वस्य बौद्धमतावलम्बिभिः आमान्यते। अवधेयं यत् अयं दिवसः भारतं नेपालं भूटानं बर्मा- थाईलैण्ड-तिब्बत-चीन-कोरिया-लाओस् वियतनाम-मंगोलिया कम्बोडिया-सिंगापुरं इण्डोनेशिया-श्रीलंका-प्रभृति राष्ट्रेषु प्रमुख पर्वत्वेन आमान्यते ।











