वीरता पुरस्कार 2022

राष्ट्रपति रामनाथ कोविन्दः अस्मिन् मासस्य दश् दिनाङ्के , नवदिल्ल्यां राष्ट्रपतिभवने आयोजिते अस्य वर्षस्य रक्षा-अलङ्करण-समारोहे वीरता पुरस्कारान् प्रदत्तवान्। तेन वीरतां साहसं कर्तव्यञ्च प्रति समर्पण-प्रदर्शित करणार्थाय सशस्त्र बलानां कर्मिभ्य: त्रयोदश-शौर्य-चक्राणि प्रदत्तानि। अपि च तेन असाधारण-कार्याय विशिष्ट-सेवायै च चतुर्दश-परम-विशिष्ट सेवा पदकानि चत्वारि-उत्तम- युद्ध-सेवा-पदकानि चतुर्विंशति-अतिविशिष्ट सेवा पदकानि च प्रदत्तानि । समारोहेस्मिन् उपराष्ट्रपति: एम. वैंकेया नायडु:, प्रधानमन्त्री नरेन्द्रमोदी, रक्षामन्त्री राजनाथसिंहः, विदेशमन्त्री डॉ. एस. जयशंकर: अन्य-गणमान्य-जनाश्च उपस्थिता: आसन्। राष्ट्रपतिः रामनाथकोविन्दः सशस्त्रसेनायाः सर्वोच्चसेनापतिः अस्ति ।