पर्यावरणस्य रक्षणं सर्वेषां जनानां दावित्यम्

अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते । इत्युक्ते मनुष्यो यत्र निवसति, यत् खादति, यत् वस्त्रं धारयति, यज्जलं पिबति यस्य पवनस्य सेवनं करोति, तत्सर्व पर्यावरणम् इति शब्देनाभिधियते। अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते। साम्प्रतिके काले निखिलेऽस्मिन् जगति मानवसभ्यतायाः समक्षमनेके समस्यात्मका दुष्प्रभावा: समुज्जृम्भते । पर्यावरणस्य प्रदूषणमपि तथैव मुख्या समस्या मानवसभ्यताये परिदृश्यते। अधुना औद्योगिकप्रसारेण न केवलं जलं, वायुः फलमन्नादिकं च प्रदूषितमपितु समग्रमपि भूमण्डलं दूषितं भवति। प्रतिदिनं परमाणुयंत्राणां रेडियोधर्मिता सर्वत्र प्रसरति, विषाक्तगेसीयतत्वानां प्रसारेण, बृहदाकारोद्योगिक यंत्राणामपशेषिते पदार्थे विविधानां यानादीनां धूमपुत्रेश्ठ तथैवान्येः संयंत्रादिभिः सर्वत्रवातावरणं भूलोकस्य वायुमण्डलं प्रदूषितं भवतीति वृत्तं दृग्गोचरी भवति अस्मिन् वैज्ञानिके युगेऽपि यदि पर्यावरणप्रदूषणस्य निरोधोपायः समुचितो न स्यात्तदा कस्मिन् युगे भविष्यति।
पर्यावरणप्रदूषणस्य प्रभावाद् जगति रोगदीनां वृद्धिः सञ्जाता, अन्नपानादिषु रेडियोधर्मिपदार्थानां सम्मिश्रणात् सर्वत्र वायुमण्डलम तु दूषितं भवत्येव, तस्माद् आनुवंशिक प्रभावोऽपि भवति । अनेन भविष्यत्काले मानवसभ्यताया विनाशोऽवश्यम्भावीति निक्षप्रचम्। विश्व स्वास्थ्य संघटनेन पर्यावरणसन्तुलनार्थमनेके उपायाः प्रतिपादिताः। अस्माकं देशेऽपि पर्यावरणप्रदूषणस्य निवारणार्थं सर्वकारद्वारा व्यवस्था क्रियते, तदनुसारं गंगानद्याः स्वच्छताभियानं अशुद्धजलैमलादीनां, विशुद्धयर्थ संयन्त्राणि स्थाप्यन्ते जनजागरणमपि प्रचलति प्रदूषणनिवारणस्योपायाः, विधयश्चापि निर्दिश्यन्ते । एवञ्च विविधोपायेरेव पर्यावरणस्य संरक्षणं भवितुमर्हति।
विश्वपर्यावरणदिनं प्रतिवर्ष “५ जून्” इति दिने अस्ति। बहुषु देशेषु इदं पर्यावरणदिनम् आयुज्यते। विश्वपर्यावरणदिनस्य हेतुः अस्ति सर्वान् जनान् पर्यावरणस्य विषये ज्ञापयितुम् । मानवाः पर्यावरणस्य महत्त्वं न जानन्ति मनुष्याणां कार्याणां कारणात् पर्यावरणे प्रदूषणस्य महती समस्या अस्ति। प्रदूषणस्य अपि प्रकाराः सन्ति यथा जलप्रदूषणं, वायुप्रदूषणं, भूप्रदूषणं ध्वनिप्रदूषणं च । एतैः सर्वः प्रदूषणप्रकारैः जनाः रुग्णाः भवन्ति । प्रदूषित जल पीत्वा उदररोगः भवति। वायुप्रदूषणेन वासरोगाः भवन्ति । रासायनिक उर्वरकाणां कारणात् भूप्रदूषणं भवति। अनन्तरं यदा तस्याम् एव भूमौ सस्यानाम् उत्पादनं भवति, तदा फलानि तथा च शाकानि खादित्या नैके रोगाः भवन्ति । ध्वनिप्रदूषणस्य कारणात् श्रवणरोगाः भवन्ति प्रदूषणस्य कारणात् केवलं जनाः समस्याः अनुभवन्ति इति नास्ति परं वृक्षाः पशवः खगाः च सर्वेऽपि समस्याः अनुभवन्ति ।
वयं वायुजलमृदाभिः आवृत्ते वातावरणे निवसामः। एतदेव वातावरणं पर्यावरण कथ्यते। पर्यावरणेनैव वयं जीवनोपयोगिवस्तुनि प्राप्नुमः । जलं वायुः च जीवने महत्वपूर्णो स्तः।
साम्प्रतं शुद्ध पेय जलस्य समस्या वर्तते। अधुना वायुरपि शुद्धं नास्ति। एवमेव प्रदूषित पर्यावरणेन विविधाः रोगाः जायन्ते । पर्यावरणस्य रक्षायाः अति आवश्यकता वर्तते। प्रदूषणस्य अनेकानि कारणानि सन्ति। औद्यौगिकापशिष्ट – पदार्थ – उच्च ध्वनि – यानधूम्रादयः प्रमुखानि कारणानि सन्ति। पर्यावरणरक्षायै वृक्षाः रोपणीयाः। वयं नदीषु तडागेषु च दूषितं जलं न पतेम्। तैल रहित वाहनानां प्रयोगः करणीयः। जनाः तरुणां रोपणम् अभिरक्षणं च कुर्युः।
पर्यावरणस्य रक्षणं सर्वेषां जनानां दावित्यम् अस्ति। पर्यावरणस्य प्रदूषणात् रक्षणं कर्तुं शक्यते। पर्यावरण रक्षयितुं सर्वत्र पादपारोपणं करणीयम्। नदीनां समुद्राणां च जलं निर्मलं कर्तुं सर्वः जनैः प्रयत्नानि करणीयानि सर्वेषां जनानां प्रयत्नः अस्माकं पर्यावरण शुद्धं भविष्यति।
दशकूपसमा वापी, दशवापीसमो ह्रदः।
दशह्रदसमो पुत्रो, दशपुत्रसमो द्रुमः।।

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत् ॥
इदं शास्त्रवचनं सत्यं कर्तुम् अस्माभिः सर्वः विषपर्यावरणदिनात् प्रारभ्य पर्यावरणस्य रक्षणं करणीयम्।