प्रधानमन्त्री नरेन्द्रमोदी गतसप्ताहे शिमलायां निर्धन कल्याण सम्मेलनान्तर्गत दशकोटितोऽप्यधि-केम्य: कृषकपरिवारलाभार्थिभ्यः एकादशदेयांशरुपेण प्रायशः एकविंशतिसहस्रकोटिमितात्मिका राशि निस्सारितवान्, लाभार्थिभिः सम सम्वादमपि विहितवान्।
प्रधानमन्त्री-नरेन्द्रमोदी विगतेसप्ताहे शिमलाया: रिज’ प्रांगणे निर्धन कल्याण सम्मेलनावसरे जनसभा सम्बोधितवान्। नरेन्द्रमोदिन: नेतृत्वे केन्द्रशासने शासनपरक- अष्टवर्षपूर्त्यवसरे कार्यक्रमः एषः समायोजितः। अत्रावसरे श्रीमोदी प्रधानमन्त्री-कृषक सम्मान-निधि-योजनान्तर्गतं एकादशं वित्तीयदेयांशमपि निस्सारितवाना अत्रावसरे विशाल जनसभा सम्बोधयन् प्रधानमन्त्री मोदी हिमालचल आगमने प्रसन्नता प्रकटितवान्। सममेव विभिन्नानां केन्द्रशासनीय योजनानां लाभार्थिभिः समं प्रधानमन्त्री आभासीय माध्यमेन सम्वादपि विहितवान्।
प्रधानमन्त्री-भारतीय-जनौषधि-परियोजनायाः कार्यान्वयन समवायेन फार्मास्युटिकल्स एण्ड मेडिकल डिवाइसेस ब्यूरो ऑफ
इण्डिया’ इत्येतेन प्रथमं वारं प्रवर्तमानवर्षस्य मे मासे शतकोटिमितात्मक, विक्रयः समधिगतः । अवधेयं यत् केन्द्रशासनेन जनौषधि-केन्द्राणां संख्या समेधिता अथ अग्रिमवर्षस्य मार्चमास यावत् दशसहस्रं यावत् सम्वर्धनस्य लक्ष्यं सन्धारितम्। विगतेषु पञ्चवर्षेषु परियोजनान्तर्गतं पञ्चदशसहस्रकोटितोप्यधिकः लाभांश: सम्प्राप्तः अवधेयं यत् योजनान्तर्गतं आवश्यकौषधीनां निर्बाधोपलब्धता सुनिश्चीयते।











