प्रधानमन्त्री नरेन्द्रमोदी ‘विश्व पर्यावरण-दिवसावसरे’ नवदिल्ल्यां , विज्ञान-भवने ‘मिट्टी बचाओ’ इति ‘मृदां रक्षतु’ आन्दोलनस्य कार्यक्रमे भागं गृहीतवान्। असौ कार्यक्रमावधी एका सभामपि सम्बोधितवान्। ‘मृदां रक्षतु’ आन्दोलनं मृदास्वास्थ्यस्य क्षीणतायाः विषये जागरूकतां वर्धयितुं मृदापरिष्कारार्थं जागरूकता आनेतुं च वैश्धिकान्दोलन वर्तते। अवधेयास्पदं वर्तते यत् सद्गुरू इत्यनेन अस्मिन् वर्षे मार्चमासे एतत् आन्दोलनम् आरब्धम्। प्रधानमंत्री नरेन्द्र मोदिना उक्तं यत् पर्यावरण-संरक्षणे भारतस्य प्रयास: बहुविधः अस्ति। भारतेन निर्धारित समयात् पूर्व शिलातैले दश प्रतिशतस्य एथेनॉल इत्यस्य मिश्रणस्य लक्ष्यं प्राप्तम् । प्रधानमन्त्रिणा प्रोक्तं यत् प्रशासनस्य विभिन्नेषु कार्यक्रमेषु प्रकृते संरक्षणस्य उपायाः कृताः । कृषकाणां कृते मृदाया: गुणवत्ताया विषये जागरणं कर्तुं व्यापकम् अभियानं चालितम् । मृदा स्वास्थ्य-प्रपत्रं च उपलब्धं कारितम्। श्रीमोदिना उक्तं यत् अधुना यावत् द्वाविंशति कोटितः अधिकं मृदा-स्वास्थ्य-प्रपत्रं कृषकेभ्यः प्रदत्तम्। यत् प्रशासनं गंगा-नदी-तटे प्राकृतिक-कृषिं प्रोत्साहयिष्यति। प्रधानमंत्रिणा प्रोक्तं यत् प्रशासनेन मृदाया: संरक्षणाय केचन् उपाया: ध्याताः सन्ति।
विश्व-पर्यावरण-दिवसावसरे प्रधानमन्त्री नरेन्द्रमोदी एकस्य वैश्विकोपक्रमस्य लाइफस्टाइल फॉर द एनवायरमेन्ट मूवमेन्ट इत्यस्य आरम्भ अपि कृतवान । अस्य कार्यक्रमस्य आयोजनं दृश्य-श्रव्य परान्तजलीय माध्यमेन अभवत् ।











