प्रधानमन्त्री गुजरातस्य कालोले विश्वस्य सर्वप्रथमं नैनो-यूरिया-लिक्विड-प्लान्ट इत्यस्य उद्घाटनं कृतवान्। अस्योद्घाटनं गान्धीनगरस्थे महात्मागानिधिमन्दिरे जाते सहकार सम्मेलने दृश्यसंवाद माध्यमेन अभवत् । सहकारतः समृद्धि-विषयमालक्ष्य आयोजितासु विभिन्न सहकारि-संस्थानानां प्रमुख सङ्गोष्ठीषु प्रधानमन्त्रिणा इफ्को इत्येतस्य नैनो-यूरिया इति द्रव्य-संयंत्रस्योद्घाटनं कृतम्। इदं संयन्त्रं प्रायः पञ्चसप्तति-कोट्यधिकैकार्बुद-रूप्यकैः विनिर्मितमस्ति। नैनो-यूरिया इत्येतस्य उपयोग-माध्यमेन सस्योपलब्धता विवर्धनाय इदं संयन्त्रं विनिर्मितमस्ति । अस्मिन्नेव क्रमे सहकार सम्मेलने गुजरातस्य विभिन्न सहकारी संस्थानानां सप्त-सहस्राधिक- प्रतिनिधयः सम्मिलिताः सन्ति। सम्मेलनस्य मुख्य विषयः ‘सहकारतः समृद्धिः’ बिद्यते। गुजरातस्य सहकारि-क्षेत्रं अखिलमपि राष्ट्राय आदर्शत्वेन विद्यते। ५०० मिलीलीटर नैनोयूरियायुक्तं लघुशिशी वर्तमानकाले कृषकैः उपयुज्यमानस्य एकस्य ५० किलोग्रामस्य दाणिकायुक्तस्य यूरियापुटस्य तुल्यम् अस्ति । एतेन यूरियायाः परिवहनस्य भण्डारणस्य च व्ययः पर्याप्ततया न्यूनीकरिष्यत। तत्पूर्वम् प्रधानमन्त्री गुजरातस्य राजकोटस्य समीपस्थे आटकोटक्षेत्रे मातुश्री-के.डी.पी. मल्टीस्पेशेलिटी चिकित्सालयस्योद्घाटनं कृतवान् । प्रोक्तवान् चसर्वकारः भेद-भाव-रहितो भूत्वा सर्व-जनेभ्यः अधारभूतानि सौविध्यानि उपलब्धं कारयितुं प्रयासं कुर्वन्नस्ति । अत्र अवसरे प्रधानमंत्री नरेन्द्रमोदी प्रोक्तवान् यत् तस्य सर्वकारः स्व-कार्यकालस्य अष्ट-वर्षाणि अपूरयत् । अस्मिन्नवधौ सर्वकारः ‘सबका साथ, सबका विकास अपि च कुशल प्रशासनस्य माध्यमेन निर्धनानां कल्याणाय अनेकानि कार्याणि कृतवान् । श्रीमोदी प्रोक्तवान् यत् पटेल-सेवा-समाजेन संचालितः अयं मल्टी स्पेशियलिटी चिकित्सालय: सौराष्ट्र-क्षेत्रस्य निवासिभ्य: विश्व-स्तरीय स्वास्थ्य-सुविधा: उन्नत-चिकित्सकीय उपकरणानि च उपलब्धं करिष्यति । सः प्रोक्तवान् यत् गुजराते स्वास्थ्यसेवाक्षेत्रम् प्रतिपिनं उत्कृष्टम् भवति येन सामान्यजनेभ्यः सर्वश्रेष्ठ-स्वास्थ्य-सेवा: समुपलप्स्यन्ते । या जनाः सर्वकारेण सह सम्मिल्य प्रयासान् कुर्वन्ति तपा सेवाभाव-शक्तौ वृद्धिः भवति । श्रीमोदी प्रोक्तवान् यत् एकोत्तर-द्विसहस्रतमाबो गुजरातराज्ये नव चिकित्सकीय-महाविद्यालयाः आसन् परम् अद्य त्रिंशत् प्राशासनिकचिकित्सा-महाविद्यालय याः निज-चिकित्सा-महाविद्यालयाः च सन्ति । श्रीमोदी यत् शीघ्रमेव गुजरातवासिनः बुलेटरेलयानेन लाभान्विताः भविष्यन्ति अपि च राजमार्ग-पतनयोः विकासाय उच्चस्तरीया संपर्कसुविधाः प्रास्यन्ते। राज्येउन्नत-विमानसेवा उपलब्धा अस्ति या निरन्तरं वर्धमानं विकासं प्रापर्शयति । इतः पूर्व प्रधानमन्त्री चिकित्सालयस्य भ्रमणं कृत्वा विभिन्नस्वास्थ्य-सौविध्यानि निरीक्षितवान्। गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलः अपि कार्यक्रमसम्बोधितवान् ।











