केन्द्रीयसंस्कृतविश्वविद्यालयस्थलखनऊपरिसरे दिनाङ्कः 16.06.2022 तः दिनाङ्कः 20.06.2022 पर्यन्तं पञ्चदिवसीययोगप्रशिक्षणकार्यशाला समायोजिता। 20.06.2022 तमे दिनाङ्के योगासनस्पर्धा आयोजिता । स्पर्धायामपि बहवः प्रशिक्षणार्थिनः भागं गृहीतवन्तः ।प्रशिक्षिकायाः परिसरीयछात्रायाः विभायाः प्रशिक्षणेन सर्वे सर्वाश्च प्रशिक्षणार्थिनः प्रशिक्षिताः ।विश्वविद्यालयस्य यशस्वीकुलपतिनां संरक्षणे, परिसरनिदेशकानां मार्गदर्शने , कार्यक्रमसंयोजकानां संयोजने च कार्यशालेयं प्रचल्यमाना आसीत् ।
जूनमासस्य 20 एवं 21 दिनाङ्के “आधुनिक युग में मानवता के लिये योग” विषयमाधृत्य विशिष्टव्याख्यानकार्यक्रमः समायोजितः। कार्यक्रमेऽस्मिन् मुख्यवक्तारूपेण भारतस्वाभिमान ट्रस्ट पतञ्जलियोगपीठस्य , लखनऊपूर्वस्य अध्यक्षः श्रीपीयूषकान्तश्रीवास्तव महोदयाः समुपस्थिताः। सभाध्यक्षाः परिसरनिदेशकाः प्रो.सर्वनारायणझामहोदयाः केनोपनिषद्मन्त्राणां वैशिष्ट्यमुपस्थाप्य मन-क्रिययोः संयोगः योग इति निरूपितवन्तः। कार्यक्रमेऽस्मिन् डॉ.प्रदीपदीक्षित- डॉ.धर्मेन्द्रकुमारपाठकमहादयौ मङ्गलाचरणम् आचरितवन्तौ। परिसरीयव्याकरणविभागीयाचार्याः प्रो.धनीन्द्रकुमारझामहोदयाः स्वागतभाषणेन अतिथिनां स्वागतं कृतवन्तः।बौद्धदर्शनविभागीयसहायकाचार्याः डॉ.गुरुचरणसिंहनेगी-शिक्षाशास्त्र विभागीयसहायाचार्याः डॉ.गणेशशङ्करविद्यार्थीमहोदयौ धन्यवादं ज्ञापितवन्तौ। शान्तिमन्त्रेण विशिष्टव्याख्यानकार्यक्रमस्य समापनं जातम् । जूनमासस्य 21 तमे दिनाङ्के परिसरप्राङ्गणे सामूहिकरुपेण सर्वे आचार्याः,प्राध्यापकाः, कर्मचारिणः, छात्रछात्राश्च योगासनं कृतवन्तः।
शिक्षाशास्त्रविभागीयाचार्येण प्रो.देवीप्रसादद्विवेदीमहोदयेन सम्पूर्णकार्यक्रमः समायोजितः सञ्चालितश्च। कार्यक्रमस्यास्य सह-संयोजकाः डॉ.रुद्रनारायणनरसिंहमिश्रमहोदयाः एवञ्च कार्यक्रमस्यास्य सह-संयोजिका-सुश्रीज्योतिसिंहमहोदयाः सम्पूर्णकार्यक्रमे उपस्थिताः आसन् ।











