बाबायोगेन्द्रः दिवंगतः

राष्ट्रियस्वयंसेवकसंघस्य सांस्कृतिक-शाखायाः संस्कारभारत्याः संस्थापकसदस्यः बाबायोगेन्द्रः १० -जून दिनाङ्के प्रातः लखनऊनगरे दिवंगतः। मुख्यमन्त्री योगीआदित्यनाथ: एकेन ट्वीट्सन्देशमाध्यमेन उक्तवान् यत् बाबायोगेन्द्रः सहस्रशः सांस्कृतिकप्रस्तुति-प्रदातॄणां कृते प्रेरणास्रोतः आसीत्। राज्यपालमहोदयया आनन्दीबेन पटेलेन अपि शोकसंवेदना प्रकटिता। विगतेभ्यः कतिपय-सप्ताहेभ्यः बाबायोगेन्द्रः चिकित्सालये उपचर्यमाण: आसीत्, सः अद्य प्रातः प्रायसः अष्टवादने परलोकं प्रयातः श्रीमोदी स्वकीये शोकसन्देशे पद्मश्री बाबायोगेन्द्रस्य क्षति: विश्वकलाक्षेत्रस्य हानिः अस्तीति अवोचत्।