त्रयः धूर्ता: ( पञ्चतन्त्र बाल कथा)

कस्मिश्रित ग्रामे मित्रशर्मा नाम ब्राह्मणः आसीत् । सः अतीव निर्धनः । कदाचित् सः ग्रामान्तरं गतवान् । तत्रत्यः भूस्वामी अतीव दयालुः आसीत् । सः ब्राह्मणाय दानरूपेण एकम् उत्तमम् अजं दत्तवान् । ब्राह्मणः तम् अजं स्वग्रामम् आनेतुम् उद्युक्तः । परन्तु अजः मार्गे इतस्ततः धावितुम् आरब्धवान्। अतः ब्राह्मणः तम् अजं स्कन्धे निधाय ग्रामाभिमुखं प्रस्थितः ।
तेन एव मार्गेण त्रयः धूर्ताः आगच्छन्ति स्म । ते ब्राह्मणम् अजं च दृष्ट्रा परस्परं चिन्तितवन्तः ‘कथञ्चित् एतं ब्राह्मणं वञ्चयित्वा अजम् अपहराम’ इति । अनन्तरं तेषु एकः वेषपरिवर्तन कृत्वा ब्राह्मणस्य पुरतः आगत्य उक्तवान्- “भोः ब्राह्मणोत्तम । किम् एतत् अकार्यं करोति भवान् ? शुनकं वहति किल ? एतादृशं लोकविरुद्धं कार्यं न करणीयम् । जनाः यदि पश्यन्ति तर्हि हसन्ति” इति ।
ब्राह्मणः कोपेन उक्तवान् “किं भवान् अन्धः ? अर्ज शुनकः इति वदति किल भवान् ?” इति ।
“कोपं न करोतु श्रीमन् ! भवान् यथा इच्छति तथैव करोतु । भवतः स्कन्धे स्थितः तु शुनकः एव, न तु अजः ” इति उक्त्वा सः धूर्तः गतवान् ।
किञ्चित्कालानन्तरं द्वितीयः धूर्तः आगतवान् । सः ब्राह्मण दृष्ट्रा आश्चर्यम् अभिनयन् पृष्टवान् किं भोः ब्राह्मणोत्तम । मृतं वत्सं स्कन्धे वहति किल ? एतत् शास्त्रविरुद्ध न वा ? किमर्थं भवान् एवं करोति ?” इति ।
इदानीं ब्राह्मणस्य मनसि संशयः उत्पन्नः । तथापि सः उक्तवान् “किं भोः । भवान् अपि अन्धः वा ? अजं मृतवत्सः इति वदति किल ।” इति ।
धूर्तः “क्षम्यताम् । अहं वस्तुस्थितिम् उक्तवान् । भवान् यथा इच्छति तथा करोतु” इति उक्त्वा ततः गतवान् ।
पुनः तृतीयः धूर्तः आगतवान् । सः पृष्टवान् “भोः ब्राह्मण ! किम् एतत् अकार्यं करोति भवान् ? गर्दभं स्कन्धे वहति किल ? भवतः बुद्धिः नास्ति किम् ?” इति ।
तदा ब्राह्मणः चिन्तितवान् – ‘मम स्कन्धे अन्यः प्राणी एव अस्ति इति भाति । एकः शुनकः इति वदति । अन्यः मृतवत्सः इति वदति । एषः गर्दभः इति वदति । अथवा एषः प्राणी मायावी स्यात् । अतः विभिन्नरूपेण दृश्यते । अतः एषः मया न नेतव्यः’ इति ।
एवं चिन्तयित्वा सः अजं परित्यज्य धावितवान् । ते त्रयः अपि धूर्ता: अजं गृहीत्वा मारयित्वा यथेष्टं खादितवन्तः ।