बॉयोटेक् -स्टार्टप एक्सपो-२०२२

प्रधानमन्त्री नरेन्द्र मोदी गतपक्षे नवदिल्ल्याः प्रगति मैदान इत्यत्र अस्य वर्षस्य बायोटेक स्टार्टअप एक्सपो इति द्वि-दिवसीयायाः जैवप्रौद्योगिकी – नवोद्योग-प्रदर्शन्याः उद्घाटनं कुर्वन् एवञ्च अस्मिन्नवसरे जनान् अपि सम्बोधितवान् । अस्याः आयोजनं जैव-प्रौद्योगिकी-विभागः जैव-प्रौद्योगिकी-उद्योगानुसंधान-सहायता-परिषद् च कुरुतः। अस्य परिषदः स्थापनायाः दश-वर्ष-पूर्त्यवसरे आयोज्यमानायाः अस्याः प्रदर्शन्याः विषयः अस्ति ‘जैवप्रौद्योगिकी-नवोद्योग-नवाचारः आत्मनिर्भरभारतं प्रति इति । इयं प्रदर्शनी उद्यमि-निवेशक-वैज्ञानिक प्राशासनिकाधिकारि-अन्यहितधारकेभ्यः एक मञ्चं उपलब्धं करिष्यति । प्रदर्शन्यां प्रायः त्रिशत-लघु-विपणय: भविष्यन्ति ।
प्रधानमन्त्री उक्तवान् यत् भारतं जैव-दश देशानां पारिस्थितिकी तंत्रे शीर्ष-दश देशानां समूहे संप्रापणात् दूरं नास्ति। प्रधानमन्त्रिणा नरेन्द्र मोदिना उक्तं यत् भारतस्य जैव-अर्थव्यवस्था गत-अष्ट वर्षेषु अष्टगुणिता अभवत्। एषा दश-अर्बुद-डॉलरत: वर्धित्वा अशीति-अर्बुद-डॉलर राशि: अभवत्। नव- देहालयाः दिल्ल्या: प्रगति-मैदान-इत्यत्र आयोजितस्य बॉयोटेक-स्टार्टअप एक्सपो-2022 इत्यस्य उद्घानं कुर्वन् श्री मोदी उक्तवान् यत् भारतं जैवप्रविधे: वैश्विक पारिस्थितिकी तंत्रे शीर्ष-दश देशानां समूहे संप्रापणात् दूरं नास्ति । तेन प्रोक्तं यत् गतेषु केषुचित-वर्षेषु भारतीयाः चिकित्सका: वैज्ञानिका: चअशेषंविश्वं प्रतिभात: पराजितवन्तः प्रधानमन्त्रिणा प्रोक्तं यत् जनसंख्यायां विविधता, जलवायु प्रतिभावतां मानव-संसाधनानां, व्यापारे सुगमताया:, जैव-उत्पादानां वर्धमाना याचना भारतस्य जैव प्रविधेः क्षेत्रस्य सफलता च देशस्य शक्तिं बहुगुणं सबलं च अकरोत् प्रधानमन्त्रिणा प्रोक्तं यत् विज्ञानं एवं प्रविधिः अधुना विभिन्नेषु क्षेत्रेषु विकासस्य केन्द्र-बिन्दुः अस्ति । द्वि द्विवसं यावत् प्रचलितस्य बॉयोटेक् -स्टार्टअप एक्सपो-द्वाविंशत्युत्तर-द्विसहस्रस्य आयोजनं जैव-प्रौद्योगिकी उद्योग- अनुसंधान-सहायता-परिषदः स्थापना दश वर्ष पूरयितुम् उपलक्ष्ये कृता आसीत्। प्रधानमन्त्रिणा प्रोक्तं भारतं शिलातैले दशप्रतिशतस्य एथेनॉल इत्यस्य मिश्रणस्य लक्ष्यं प्राप्तवत्।