प्रगति मैदान एकीकृत पारगमन गलियारा परियोजना, तत् यात्रिकाणां समयस्य रक्षणं करिष्यति

प्रधानमन्त्री नरेन्द्रमोदी १९-जून दिनाङ्के प्रातः काले दिल्ल्यां प्रगति मैदान-इंटीग्रेटेड-ट्रांजिटकॉरिडोर सुरङ्गं-इत्यस्याः परियोजनायाः मुख्य, पञ्चतलमार्गान्- च राष्ट्राय समर्पितवान्। अस्मिन् अवसरे असौ एकां सभामपि सम्बोधितवान् । इयं परियोजना प्रगतिमैदान-पुनर्विकासपरियोजनायाः एकम् – व्ययेन कृतमस्ति।-रूप्यकाधिक-शतकोटि-नव-अभिन्नम् अङ्गमस्ति । अस्य निर्माणं विंशत्यधिक अवसरेऽस्मिन् असौ प्रोक्तवान् यत् इयं परियोजना कोविड-आदीभिः अन्याभिः बाधामि याता। प्रधानमन्त्रिणा प्रोक्तं यत् देशे एतादृशनां जनानां न्यूनता नास्ति ये इमाः परियोजना प्रक्रिया: बाधितां कर्तुं न्यायापालिकायाः द्वारम् आघातयन्ति। प्रशासनेन तत् प्रपूरितम्। मोदिना उक्तं यत् पूर्वं विकासस्य योजना कर्गद-पत्रेषु एव निर्मिता: जाताः, प्रशासनं वार्तापत्रेषु भवेत् अत: घोषणां कारितवत्, अनन्तरं विस्मरति स्म । किन्तु गतेषु अष्ट वर्षेषु केन्द्रं दिल्ली एन.सी.आर. स्थानानां समस्यानां समाधानाय बहून् उपायान् कृतवत्।