ढाकात: कोलकातापर्यन्तस्य भारतबांग्लादेशयोः लोकयानसेवाया: शुभारम्भः अद्य पुनः आरब्धा । हरितध्वज-प्रदर्शनपूर्वकं अखौरा-अगरतला अथ च बेनापोल-हरिदासपुर इत्येताभ्यां संयुक्तसीमा परीक्षणकेन्द्राभ्यां बस इत्याख्याया लोकयानसेवायाः शुभारम्भो विहितः । उभयोः देशयोर्मध्ये मईमासस्य एकोनत्रिंशत् दिनांके कोलकातात: खुलना इत्यन्तस्य अथ ढाकात. कोलकातान्तस्य च बन्धन एक्सप्रेसाख्याया: मैत्री-रेलसेवायाः शुभारम्भो विहितः आसीत्, तस्मात् द्विसप्ताहदपि प्रागेव एषा नूतना सेवा पुन: आरब्धा ।











