मार्कण्डेय शारदेयः (पटना, बिहारस्थः)
यथा राजा तथा प्रजेति वास्तविकता। राज्ञः शिथिलतायां प्रजा कथं कर्तव्य-निष्ठिता भवितुम् अर्हति । यदि शासकः न्यायप्रियः, सत्य-परायणः, जन-चिन्तकः, राष्ट्ररक्षकः स्यात्तु जनतापि तथैव आचरिष्यति। श्रीकृष्णः गीतायां कथयति-
‘यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः।
स यत् प्रमाणं कुरुते लोकः तदनुवर्तते’। । (3.21)
अतः राजा राष्ट्रनायकः भवति। सः राष्ट्रं राष्ट्रवासिनां च सुपथं कुपथं वा नयति। सुयोग्यः सुपथि, कुराजः कुपथि एव नयति। कालिकापुराणे सुयोग्यस्य नृपस्य एकविंशतिः अर्हताः कथिताः । तद्यथा- धृतिः, प्रागल्भ्यम्, उत्साहः, वाक्पटुत्वम्, विवेचनम्, दक्षत्वम्, धारयिष्णुत्वम्, दानम्, मैत्री, कृतज्ञता, शासनस्य दृढता, सत्यम्, शौचम्, मति-विनिश्चयम्, पराभिप्राय-वेदित्वम्, चरित्रम्, आपदि धैर्यम्, क्लेश-धारणस्य शक्तिः, गुरु-देव-द्विजार्चनम्, असूया, अकोपित्वं चेति राजगुणाः (84.30-32) ।
अस्तु, चतुर्युगानि- कृतं त्रेता द्वापरं कलिश्चेति । एतेषां पृथक् पृथक् युगाधीनाः प्रभावाः वर्णिताः । कारणं यत् एतानि युगानि अपि कालशाकानि । किन्तु, राष्टनेता आत्मकौशलेन युगप्रभावम् अपि रोद्धुं समर्थः। यथा कोऽपि आलसः वस्तौ प्राप्तेऽपि उपभोगे असमर्थः, तथैव अयोग्यः राजापि शास्तुम् असमर्थः ।
पाण्डवाः सर्वथा सुयोग्याः। तेषां ज्येष्ठस्तु ज्येष्ठ एव । अतः युद्धकाले समुत्पन्ने शान्तिवार्तायै गतवति श्रीकृष्णे तदा सः महाराज्या कुन्त्या सह मिलितवान् । तस्मिन्नेव समये वासुदेवेन पाण्डवेभ्यः सन्देशः प्रार्थितः-
‘किं वाच्याः पाण्डवेयाः ते भवत्या वचनान्मया ।
तद्ब्रूहि त्वं महाप्राज्ञे शुश्रूषे वचनं तव’। । (5.132.4)
तस्मिन् समये सा कथयति-
‘ब्रूयाः केशव राजानं धर्मात्मानं युधिष्ठिरम्।
भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः’। । (5.132.5)
अर्थात्, हे केशव! त्वं गत्वा महात्मानं युधिष्ठिरम् इदं कथय यत् तव प्रजापालनस्य धर्मस्य महती हानिः भवति, त्वं व्यंर्थं समयं मा जहि। कारणम्-
‘अङ्गावेक्षस्व धर्मं त्वं यथा सृष्टा स्वयम्भुवा।
बाहुभ्यां क्षत्रियाः सृष्टा बाहु-वीर्योपजीविनः’। । (5.132.7)
सा कुबेर-मुचुकुन्दयोः प्रसङ्गं प्रस्तुवती कथयति यत् क्षत्रिय-कार्यं श्रमं विना धन-ग्रहणं नहि, अपितु उद्योगेन धनार्जनम्। एकदा प्रसन्नः कुबेरः राजर्षये मुचुकुन्दाय समस्तां पृथ्वीं दातुम् ऐच्छत्, किन्तु सोऽवदत्- ‘बाहुवीर्यार्जितं राज्यम् अश्नीयाम् इति कामये’ (5.132.10)। एतच्छ्रुत्वा धनपतिः प्रसन्नः विस्मितः च अभवत्। तेन राजर्षिणा तत्कृतमपि। अतः पुत्र! ध्यातव्यम् इदम्-
‘राजा चरति चेद् धर्मं देवत्वायैव कल्पते।
स चेद् अधर्मं चरति नरकायैव गच्छति’। । (5.132.13)
अस्मिन् प्रसङ्गे एव माता कुन्ती शासने चत्वारि युगानि पश्यन्ती कथयति-
‘दण्डनीत्यां यदा राजा सम्यक् कार्त्स्न्येन वर्तते।
तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते’। । (5.132.15)
अर्थात्, राज्ञां मुख्या नीतिः धर्मश्च दण्डनीतिः। एतस्या एव ते सम्यक् शासनं सञ्चालयितुं समर्थाः। कथितञ्च देवीभागवते-
‘विना दण्डं कथं राज्यं करोति जनक किल।
धर्मे न वर्तते लोको दण्डः चेत् न भवेद् यदि’। । (1.17.3)
तेषु दण्डेषु वधः अर्थग्रहणम्, बन्धन-ताडनादय। एषां नीतिं सम्यग् आचरितेन शासकः स्वशासन- काले सत्ययुगं स्थापयितुं समर्थः। सा अस्मिन्नेव अवसरे कथयति-
‘कालो वा कारणं राज्ञः राजा च कालकारणम् ।
इति ते संशयो मा भूत् राजा कालस्य कारणम्’। । (5.132.16)
आशयोऽयम्, राज्य-व्यवस्थायां कालः कारणं भवति, अथवा राजा एव कारणं भवति। तात्पर्योऽयं यत् कदाचित् योग्ये राजनि सति अपि प्रबलया परिस्थित्या तस्य योग्यता बाधिता भवति। तस्मात् सः विवशः सन् सक्षमोऽपि अक्षमः दृश्यते । पुनः तस्य कालखण्डं निन्द्यते। अपरस्मिन् पक्षे अनुकूलायां स्थित्याम् अपि अयोग्यः नृपः वैषम्यम् आमन्त्र्य विनश्यति। पुनः सुयोग्यः सामर्थ्यवान् कोऽपि राजा राजनीत्यां दक्षः कुसमयम् अपि सुसमयं कर्तुं समर्थो भवति। अतः कोऽपि कालवशः तु कस्यचित् वशे कालः । अनेन कुन्ती कथयति-
‘राजा कृतयुग- स्रष्टा त्रेतायाः द्वापरस्य च ।
युगस्य च चतुर्थस्य राजा भवति कारणम्’। । (5.132.17)
अर्थात्, राजा एव सत्ययुगस्य, त्रेतायुगस्य, द्वापरयुगस्य, चतुर्थस्य कलियुगस्य च स्वयमेव स्रष्टा ।
कुन्त्याः कथनम् ऐतरेय ब्राह्मणस्य प्रगति-प्रशंसायां कथितस्य अनुकूलम्-
‘कलिः शयानो भवति संजिहानस्तु द्वापरः ।
उत्तिष्ठन् त्रेता भवति कृतं सम्पद्यते चरन्’ । ।
अर्थात्, सुप्तस्य आलसस्य शरीरे कलेः, संजिहाने द्वापरम्, उत्तिष्ठति तस्मिन् त्रेता, जागरूके सत्ययुगस्य वासः भवति । तात्पर्यतः उत्साहः सत्ययुगम् । अतः युद्धाय उत्साहितो भवेति कुन्त्याः सन्देशः।











