संस्कृतं किमर्थम् पठनीयं वक्तव्यं च इति विचारविमर्शे श्रीकामतवर्य: वर्गं सम्बोधितवान्

वार्ताहर:-डा.प्रकाशजांगी। देहरादून। उत्तराखण्ड। संंस्कृतभारती-उत्तराञ्चलस्य आवासीयशिक्षकप्रशिक्षणवर्गे संंस्कृतभारत्या: अखिलभारतीयसंगठनमन्त्री श्रीमान्दिनेशकामतमहोदय: प्रशिक्षणार्थिनां मार्गदर्शनं कृतवान् यत् मूल-अनुवादेनतत्वं नष्टं जायते। लड्डू अर्थ: आपणे स्वीट् इति आंग्लरूपेण जानाति परन्तु प्रसादरूपेण तस्य भाव: न अवगम्यते । दक्षिणभारते हिन्दी अस्ति एव न । अन्तर्राष्ट्रीयभाषाया: पखवाडा इति दक्षिणे स्थापनीया भवति तादृशीस्थिति: हिन्दीभाषाया: वर्तते । संस्कृतम् अस्माकं भारतीयभाषा विद्यते । पूर्वं तु हिंदी न आसीत् । तदा भारते संस्कृतमेव आसीत् । रुचिनिर्माणार्थं अनुवाद: जात: । तेन प्रोक्तं यत्
जापाने जोडो जुजुत्सु अस्ति तस्य मूलं भारते युयुत्सु अस्ति । सर्वत्र संस्कृतं विद्यते। सर्वभेदं विहाय अस्माकं कवय: संस्कृते एव । सर्वभाषासामरसतासामर्थ्यं संस्कृतेन । संस्कृतम् अस्माकं भाषा भवतु इति अम्बेडकर: भारतभाषासन्दर्भे उक्तवान् । राष्ट्रीयभाषार्थं संस्कृतं भवेत् । श्लोकोच्चारणेन मस्तिष्के स्मरणशक्तिरपि वृद्ध्यते । उत्तरकाशीत: अलभ्यसिंह: स्वस्मरणशक्तिवर्धनार्थं संस्कृतसम्मेलने आगतवान् । अत: सर्वेषां चिन्तनं भाषणं पाठनं संस्कृतेन भवेत् । संस्कृताय जीवनं भवेत् । अधुना 94लक्षजना: अधुना संस्कृतसम्भाषणं कुर्वन्त: सन्ति । वर्गे संस्कृतगृहाणि संंस्कृतप्रदर्शनी चादय: भवन्तु । 12 जना: पूर्णकालिकरूपेण विस्तारकरूपेण अभवन् । संस्कृतशिक्षानिदेशक:श्रीमान्शिवप्रसादखालीवर्य: संस्कृत- अकादम्या: सचिवरूपेण वर्गे समागम्य संस्कृतस्य वैज्ञानिकपक्षं सम्बोधितवान् । उत्तराखण्ड-सर्वकारेण श्रीमान् खाली महोदय: उत्तराखण्ड-संस्कृत-अकादम्या: नूतन: सचिव: चित: ।उत्तराखण्ड-सर्वकारेण संस्कृत-शिक्षा- निदेशक:, अपि च प्रारंभिक-शिक्षा अपर-निदेशक: डॉ0 शिव-प्रसाद- खालीमहोदय: सम्प्रति उत्तराखण्ड- -संस्कृत-अकादम्या: नूतन: सचिव: नियुक्तो वर्तते। अयं संस्कृतज्ञ:, संस्कृतनिष्ठ:, संस्कृतप्रेमी, स्वनामधन्य:, कर्तव्यनिष्ठ:, शिक्षाविद् ,महान् , विद्वान् च अस्ति । संस्कृतभारत्या: प्रान्तमन्त्रिणा श्रीसंजूध्यानीवर्येण माननीयानां सुस्वागतं कुर्वन् परिचयं कारितं ।
वर्गशिक्षणप्रमुखश्च रोशनगौडवर्य: प्रान्तशिक्षणप्रमुखश्च गिरीशतिवारीवर्य: चैैैवं अवसरेस्मिन् प्रान्तसंघटनमंत्री गौरवशर्मा, मेरठप्रान्तस्यसंगठनमन्त्री योगेशविद्यार्थी , सहप्रान्तमन्त्री हरीशगुरुरानी , किशोरीलालरतूडी, प्रो.प्रेमचन्द्रशास्त्रीवर्य: मनीषबडथ्वाल: , दीपचन्द्रजोशी, , वेदमित्र: प्रकाशचन्द्र-उप्रैती, जगदीशचन्द्रपाण्डेय:, भगवतीदेवराडी, दातारामपुर्वाल:, डॉ. प्रकाशजांगी, डॉ.महेशमासीवाल:, कुलदीपमैन्दोला, उमासैनी, शुभम , कमलगहतोडी वर्गाधिकारी डा.अरविन्दनारायणमिश्र: डा.अन्नपूर्णा चादय: प्रशिक्षणार्थिनश्च उपस्थिता: आसन् ।