षट्पंक्तियुतस्य नूतनगुहामार्गः

राजमार्गमन्त्री नितिनगडकरी उक्तवान् यत् राष्ट्रे अभूतपूर्वतया आधारभूतसंरचनायां परिवर्तनं जायमानम् अस्ति सम्पर्केण समृद्धिः च भवन्ती अस्ति। केन्द्रमन्त्री नितिनगडकरी उक्तवान् यत् पुणे-सतारा राजमार्गे खमबटकीघाट इत्यस्य षट्पंक्तियुतस्य नूतनगुहामार्गस्य सन्नद्धता अग्रिमवर्षस्य मार्च-मासान्तं यावत् संभवति । एकेन ट्वीट् संदेशेन श्रीगडकरी उक्तवान् यत् देशे प्रधानमन्त्रिणः मोदिन: नेतृत्वे ‘सम्पर्केण समृद्धिः’ इति विकाससूत्रानुसारि अभूतपूर्वतया आधाभूत संरचनायां परिवर्तनमपि जायमानम् अस्ति । तेनोक्तं यत् नूतने भारते विश्वस्तरीयाया: मूलभूतसंरचनायाः आवश्यकता अस्ति। श्रीगडकरिणा उक्तं यत् गुहामार्ग: पंक्ति त्रयाणां द्विगुणिता अस्ति। प्रत्येकस्य गुहामार्गस्य लभ्बता ष‌ट्कलोमीटरात्मिकी अस्ति। तेनोक्तं यत् अस्यां परियोजनायाम् आहत्य सपादनवशतकोटितोऽधिकस्य व्ययात्मकमानम् अस्ति।