प्रधानमन्त्री नरेन्द्र मोदी राष्ट्रस्य युवभिः लोकतान्त्रिकमूल्येषु विश्वसाभिवर्धनाय आहूतवान्। आकाशवाण्या मन की बात इति कार्यक्रमे श्रीमोदी उक्तवान् यत् युवानः आपातकालकाले प्रचालितानि जनान्दोलनानि माविस्मरेयुः । राष्ट्रे पञ्चसप्तत्युत्तरैकोनविंशतिवर्षस्य जूनमासस्य पञ्चविंशति-तालिकायां आपातकाल: आपातितः आसीत्। प्रधानमन्त्रिणा उक्तं यत् तस्मिन् समये देशवासीनां सर्वाण्यपि अधिकाराणि लुण्ठितानि आसन्। तेषु अधिकारेषु एकम्अधिकारम् एकविंशति: अनुच्छेदा-धारितम् वैयक्तिक स्वतन्त्रतायाः अपि आसीत् तेनोक्तं यत् देशस्य न्यायाधिकरणानि, संवैधानिकाः संस्था वार्ता: प्रकल्पादिषु च प्रतिबन्ध: घोषितः आसीत्।
प्रधानमन्त्रिणा उक्तं यत्, सर्वविध-अत्याचारानन्तरमपि जनानां लोकतन्त्रे आस्था न विचलिता। तेनोक्तम् यत् लोकतान्त्रिकी भावना आदिकालतः जनानां संस्करि सन्निहिता वर्तते। अन्ततः देशवासिन: आपातकालात् मुक्ताः अभवन्, लोकतन्त्रश्च विजितः तेनोक्तं यत् सौभाग्येन सोऽपि आपात्कालं विरुध्य संघर्ष समनुष्ठितस्य अस्य कालस्य साक्षी अभवत्। श्रीमोदी उक्तवान् यत् अदय यदा भारतं स्वतन्त्रतायाः पञ्चसप्ततिवर्षस्य उत्सवं परिपालयन्नस्ति, तदा कथमपि सः भयावहः कालः जनैः न विस्मरणीयः प्रधानमन्त्री उक्तवान् यत् विगतेषु कतिपय वर्षेषु अन्तरिक्षस्य क्षेत्रे राष्ट्रेण नैकाः बृहन्नुपलब्धयः सम्प्राप्ताः एतासु एका इन स्पेस नान्याः संस्थाया: स्थापना अपि अस्ति। एषा संस्था भारतस्य अनेकेभ्य: अशासकीय क्षेत्रेभ्यः नूतनावसरान् प्रोत्साहयति।
प्रधानमन्त्रिणा उक्तं यत् अनेन शुभारम्भेण विशेषतया देशस्य पुनः आकर्षिताः अजायन् । प्रधानमन्त्रिणा सगर्व प्रतिपादितं यत् अन्तरिक्षक्षेत्रेऽपि युवानः स्टार्ट-अप इत्युक्ते नवोद्योगित्वेन प्रवेशरता: सन्ति । अस्मिन् विषये तु प्राक् न केनाऽपि विचार: कृत: आसीत् । प्रधानमन्त्री चेन्नई नगरस्य अगिकुल अथ हैदराबादस्य स्काईरूट् इत्येतयोः नवोद्योगयोः अपि स्मरणं स्वकीये मन की बात इति कार्यक्रमे अकरोत्।











