उपराष्ट्रपतेः: निर्वाचनं

उपराष्ट्रपतेः निर्वाचनं अगस्तमासस्य षष्ठे दिनांके भविष्यति भारतीय निर्वाचन आयोगस्य ई-सी-आई इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत्, निर्वाचनस्य अधिसूचना जुलाईमासस्य पंचमदिनाइके प्रस्तौस्यते, आगामिमासस्यनवदशदिनाङ्कपर्यन्तं नामाङ्कनं कर्तुं शक्यते। नामाङ्कनस्य परीक्षणं जुलैमासस्य विंशतिदिनाङ्के भविष्यति । आयोगेन उक्तं यत्, उपराष्ट्रपतिनिर्वाचनार्थं निर्वाचनसदस्येषु राज्यसभायाः त्रयस्त्रिंशदुत्तरद्विशतं निर्वाचितसदस्याः, राज्यसभायाः द्वादशमनोनीतसदस्याः, लोकसभायाः त्रिचत्वारिंशद्त्तरपंचशतंनिर्वाचितसदस्याः सन्ति | उपराष्ट्रपति एम वेड्कैया नायडू इत्यस्य कार्यकालः अगस्तमासस्य दशमदिनाङ्के समाप्तः अस्ति।