श्वोऽस्मि हन्ता जयद्रथम्

मार्कण्डेय शारदेयः (पटना, बिहारस्थः)

चक्रव्यूहे एकाकिनि कौरव-महारथिभिः सम्मिल्य हते अभिमन्यौ विज्ञाय तथा च तेषु हन्तृषु प्रमुखं जयद्रथं च ज्ञात्वा अमर्षपूरितः कौन्तेयः अर्जुनः प्रतिज्ञातम्- ‘श्वोऽस्मि हन्ता जयद्रथम्’। तत्पुष्टौ धनञ्जयेन तस्मिन् समये अनेके शपथाः कृताः। तेऽत्र अनेन कारणेन उद्धरणीयाः यत्ते अस्माकं संस्कत्यां दोषाः मन्यन्ते, पापकर्मसु योजयन्ते। अद्यापि प्रायः भारतीयाः अपाकर्तुं प्रयतन्ते। तस्य पूर्वोक्तिः-
‘सत्यं ते प्रतिजानामि श्वोऽस्मि हन्ता जयद्रथम्।
न चेद् वधभयाद् भीतो धार्तराष्ट्रान् प्रहास्यति।।
न चास्मान् शरणं गच्छेत् कृष्णं वा पुरुषोत्तमम्।
भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम्
’।। (7.73.20-21)
अनन्तरं धनञ्जयः प्रतिज्ञभङ्गे सति अनेकेषां दोषाणां दोषभागितां स्वीकरोति। सः प्रथमं कथयति-
‘यद्येतदेवं सङ्ग्रामे न कुर्यां पुरुषर्षभाः।
मा स्म पुण्यकृतां लोकान् प्राप्नुयां शूरसम्पतान्
’।। (7.73.24)
गीतायां श्रीकृष्णः कथयति- ‘हतो वा प्राप्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्’ (2.37)। आशयोऽयं यत् प्राप्ते वीरगतौ वीराः उत्तमलोकान् अधिगमिष्यन्तीति शास्त्रसम्मतम्। वह्निपुराणे धर्मयुद्धस्य फलेषु उक्तम्-
‘धर्मलाभोऽर्थलाभश्च यशोलाभः तथैव च।
यः शूरो वध्यते युद्धे विमृदन् परवाहिनीम्।।
यस्य धर्मार्थ-कामौ च यज्ञश्चैव सदक्षिणः।
परं ह्यभिमुखे हत्वा तयोः पन्थाधिरोहति
’।।
किमधिकम्, वैकुण्ठप्राप्तिः, अश्वमेध-फलं च कथितम्-
‘विष्णोः स्थानम् अवाप्नोति एवं युद्ध्यन् रणाजिरे।
अश्वमेधम् अवाप्नोति चतुरः तेन कर्मणा
’।।
अतः धर्मे निरतानां वीराणां सत्कर्मणि शत्रूणां मारणम्, अथवा युध्यमानो मरणं श्रेयस्करं पुणमयं च मन्यते। अनेन अर्जुनस्य कथनम्-
‘यद्येतदेवं सङ्ग्रामे न कुर्यां पुरुषर्षभाः।
मा स्म पुण्यकृतां लोकान् प्राप्नुयां शूरसम्पतान्
’।। (7.73.24)
अतः परम्, अर्जुनः शपथोल्लेखं कुर्वन् कथयति यत् मातृहननम्, पितृघातनम्, गुरुदार-गमनम्, पैशुन्यम्, निक्षेप-हरणम्, साधुनिन्दा, परिवादनम्, विश्वासघातः, परभुक्तायाः स्त्रियाः भोगः, पाप-समर्थनम्, ब्रह्मघातः, विना बलिवैश्वदेवं पायसादि-ग्रहणञ्चेत्यादयः पापाः कथिताः, एतेषाञ्च यत्फलं निरूपितम्, तत्फलभागी भवानि- ‘तानन्हायाधिगच्छेयं न चेद्धन्यां जयद्रथम्’ (7.73.29)।
पुनः सः प्रतिजानाति-
‘वेदाध्यायिनम् अत्यर्थं संशितं वा द्विजोत्तमम्।।
अवमन्यमानो यान् याति वृद्धान् साधून् गुरून् तथा।
स्पृशतो ब्राह्मणं गां च पादेनाग्निं च या भवेत्।।
याऽप्सु श्लेष्म पुरीषं च मूत्रं वा मुञ्चतां गतिः।
तां गच्छेयं गतिं कष्टां न चेद् हन्यां जयद्रथम्
’।। (7.73.29-31)
अर्थात्, वेदाध्यायिनं कठोरव्रतिनं वा ब्राह्मणानाम्, वृद्धानाम्, सज्जनानाम्, गुरूणाञ्च अवहेलनया यत् पापम्, ब्राह्मणं गाम् अग्निञ्च पादेन स्पर्शतः यत् कलुषम्, जलाशये श्लेष्म-पुरीष-मूत्र-मोचनेन यत् कल्मषम्, एतेषां सर्वेषां किल्विषाणां भागी अहं स्याम्, यदि जयद्रथं न हन्याम्।
एवमेव, अन्ये बहवः पापाचाराः वर्णिताः, तेषु विशिष्टाः- नग्नस्नानम्, अतिथिं न भोजयित्वा तं निवर्तनम्, उत्कोच-ग्रहणम्, असत्य-भषणम्, वञ्चनम्, आत्महत्या, मिथ्याभिशंसनम्, उपकारि-निन्दा, मद्यपानम्, मर्यादा-भञ्जनम्, कृतघ्नता, स्वामिनिन्दा, सव्येन भोजनम्, उत्सङ्गे भोजनम्, उषःकाले शयनं चैतानि कर्माणि पापगणितानि। अतः यदि अहं जयद्रथं न हन्यां तु एतेषां सर्वेषाम् अघानां भोक्ता स्याम्।
शैत्ये स्नानात् भीतः ब्राह्मणः पापः, रणात् भीतः क्षत्रियश्च पापः, एवमेव दिवा मैथुनकरः, दिवा शयानः, अग्न्यतिथिसेवया पराङ्मुखः, बहुयाजी, दासवृत्त्यां वा ब्राह्मणः, गृहदाही, विषदाता, रजस्वला-सेवी, सशुल्कं कन्यादाता, मुखमैथुन-कर्ता चैते पापभागिनः। एतेषां या गतिः, सा मदीयापि भवेत्, यदि सिन्धुराजं श्वः न हन्याम्। तथा च-
‘ब्राह्मणस्य प्रतिश्रुत्य यो वै लोभात् ददाति न।
तेषां गतिं गमिष्यामि श्वो न हन्यां जयद्रथम्
’।। (7.73.44)
अस्माकं संस्कृतौ सपथस्य प्राचीना परम्परा। अस्य मुख्याशयः सत्यावधारणम् अनृतं वदन् घोरं नरकं यास्यामीति भावः।शास्त्रेषु अस्य अनेकानि रूपाणि दृश्यन्ते।अद्यापि संसदि विधानसभायां शपथग्रहणं भूयते। तत्पालनं कियत् भवतीति कथनं कठिनम्, परन्तु पुरा सर्वे धर्मनिष्ठा आसन्, अनेन दृढप्रतिज्ञा आसन्। रामायणे वनङ्गते रामे दिवङ्गते राज्ञि दशरथे यदा भरतः अयोध्याम् आगतवान् सर्वं श्रुतवान् च, तदा सः कौसल्याम् अवदत्-
‘आर्ये कस्मात् अजानन्तम् गर्हसे माम् अकल्मषम्।
विपुलां च मम प्रीतिं स्थितां जानासि राघवे।। (2.75. 20)
अनन्तरं तेन ‘यस्यार्योऽनुमतेः गतः’ इति मुहुर्मुहुः वदन् शपथः कृतः। इदं कथं क्रियते? तु, अनेन शक्तिः वर्धते, अतः सर्वैः उत्तमे कार्ये प्रतिज्ञया आत्मनः दृढीकरणम् आवश्यकम्।