जातिस्वभावः ( पञ्चतन्त्र बाल कथा)

कस्मिंश्चित् बने कश्चन सिंहः पत्न्या सह वसति स्म । कालान्तरे तस्य पत्नी पुत्रद्वये प्रसूतवती । सिंह प्रतिदिनं मृगान् मारवित्वा मांसम् आनीय पत्नीपुत्रेभ्यः ददाति स्म ।
एकदा सिंहः मृगान्वेषणार्थं बने अटति स्म । तत्र सः एकं शृगालशिशुं दृष्टवान् । करुणया तं शिशुम् आनीय सः पत्न्याः हस्ते दत्तवान् । सा अपि तं शिशुं मारयितुम् न इष्टवती । अतः तं वात्सल्येन स्वपुत्रम् इव पालितवती । स्वपुत्राभ्यां यथा आहारादिकं ददाति तथा शृगालशिशवे अपि ददाति स्म सा । अतः ते त्रयः अपि परस्परं भेदं न जानन्ति स्म । एवमेव ते प्रवृद्धाः ।
कदाचित् ते त्रयः अपि वने अटन्ति स्म । तत्र एकः गजः आगतः । गजं दृष्ट्वा सिंहपुत्रौ आक्रमणं कर्तुं सिद्धौ । तदा शृगालपुत्रः – “भोः, एषः गजः अस्माकं कुलस्य शत्रुः । अतः तस्य पुरतः न गन्तव्यम्” इति उक्त्वा ततः गृहं प्रति पलायनं कृतवान् । तं दृष्ट्वा निरुत्साहेन सिंहपुत्रौ अपि गृहम् आगतवन्तौ । अनन्तरं तौ – “भ्राता गजं दृष्ट्वा भीत्या पलायनं कृतवान्” इति पितरम् उक्तवन्तौ ।
सिंहः हः तत् श्रुत्वा कुपितः । सः ‘भवद्भ्यां सिंहकुलस्य एव अपमाननं कृतम्’ इति पुत्रौ निन्दितवान् ।
सिंही शृगालपुत्रम् एकान्ते उक्तवती – “भोः, पुत्र ! पुनः कदापि भवान् भवतः भ्रात्रोः उत्साहभङ्गं मा करोतु” इति ।
तदा कुपितः शृगालपुत्रः उक्तवान् – “अम्ब ! किम् अहम् शौर्येण, रूपेण वा ताभ्यां हीनः ? किमर्थं तौ माम् उपहसतः ?” इति । सिंही मनसि एव हसित्वा तम् उक्तवती –
“शूरोऽसि कृतविद्योऽसि
दर्शनीयोऽसि पुत्रक ।
यस्मिन् कुले त्वमुत्पन्नो
गजस्तत्र न हन्यते ।। “
भवान् शूरः अस्ति, भवता विद्याभ्यासः अपि कृतः । भवान् सुन्दरः अपि अस्ति । तथापि भवान् वस्तुतः शृगालपुत्रः । अहं करुणया भवन्तं मम पुत्रमिव पालितवती । परन्तु भवतः शृगालकुले जाताः गजं मारयितुं शक्ताः न भवन्ति । भवान् शृगालपुत्रः इति मम पुत्रौ यदि जानीतः तर्हि भवन्तं मारयिष्यतः एव । अतः ततः पूर्वमेव भवान् इतः गत्वा स्वजातीयैः शृगालैः सह वासं करोतु ” इति ।
तत् श्रुत्वा शृगालपुत्रः लज्जया ततः गतवान् ।