अमरनाथ-यात्रा प्रारव्धा

जम्मू-कश्मीरे वार्षिकी-अमरनाथ-यात्रा प्रभृति प्रारब्धा। जून मासस्य नव-विन्शति दिनाङ्के प्रातः सार्धचतुर्वादने आधारशिबिरे विशेषपूजायाः अनन्तरं मन्त्राणां जपस्य मध्यं जम्मू कश्मीरस्य उपराज्यपालेन मनोजसिन्हा इत्यनेन औपचारिकरूपेण प्रथमदलं ध्वजप्रदर्शनद्वारा यात्रा प्रारव्धा। जम्मू-कश्मीरे दृढसुरक्षा व्यवस्थया सह जम्मूस्थितः भगवती नगर आधारशिविरात् श्रीअमरनाथ तीर्थयात्रीणां प्रथमदलं प्रस्थितम्। प्राय: पंचाशदुत्तर-सप्तशताधिक द्वि सहस्रं नुनवान-आधारशिविरात् निजयात्रां अनन्तनागस्थलस्य उपायुक्तः तीर्थयात्रिणां एषः प्रथमः समूहः सम्प्रेषितः। तत्रैव श्री मनोजसिन्हा श्रीनगरस्य राजभवने श्रीअमरनाथ यात्राया: व्यवस्थामधिकृत्य सुष्ठु-प्रबन्धनं च सुनिश्चेतुं वरिष्ठैः राजनेतृभिः समं चर्चां विहितवान्। यात्रावधौ सुरक्षामालक्ष्य तत्र व्यापकस्तरे सुरक्षाबलानि प्रकल्पितानि सन्ति। उपराज्यपालः समाश्वासितवान् यत् अमरनाथयात्रा शान्तिरीत्या सम्पत्स्यते, यात्रिणः च दर्शनानन्तरं प्रसन्नमनसा गृहं यास्यन्ति ।
कश्मीर-उपत्यकास्थितः श्री अमरनाथ गुहातीर्थस्य त्रिचत्वारिशत्दिवसीयं वार्षिकी तीर्थयात्रा काश्मीरउपत्यकायाः पहलगाम एवं बालतालपारी मध्ये प्रारभ्यते कोरोना कारणात् गतवर्षद्वयात् यात्रा स्थगितम् आसीत्। यात्रीसु विशाल उत्साह दृश्यते । अस्मिन् वर्षे अमरनाथयात्रायाः कृते दृढसुरक्षाः कृताः सन्ति। जम्मूनगरे जम्मू श्रीनगर राष्ट्रीयराजमार्गे अपि च पठानकोट जम्मू राष्ट्रीयराजमार्गे च पर्याप्तसंख्यायां सुरक्षादलानि सन्ति। जम्मू आधारशिबिरात् श्रीनगर प्रति तीर्थयात्रिवाहनेसु सुरक्षाकर्मचारिभिः अनुगमनं क्रियते। अस्मिन् वर्षे ४३ दिवसीयः अमरनाथयात्रा अस्ति, या रक्षाबन्धनदिने समाप्तः भविष्यति।