विद्वत्परिषद् संस्कृतभारती देहलीप्रान्तद्वारा २६ – जून दिनाङ्के सायं सार्धषड्वादनतः अष्टवादनं यावत् एकः कार्यक्रमः आयोज्यते । अन्तर्जालमाध्यमेन आयोज्यमानस्य एतत्कार्यक्रमस्य विषयः अस्ति “वैदिकज्ञानविज्ञानपरम्परायाः अनुशीलनम्इति कार्यक्रमस्यअध्यक्षत्वेनमहर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य कुलपतिः प्रो. विजयकुमार सीजीवर्यः उपस्थास्यति। महर्षिसान्दीपनिवेदविद्याप्रतिष्ठानस्य सचिवः प्रो वी जड्डीपालमहोदयः वक्तृरूपेण निजविचारान् उपस्थापयिष्यति । अस्य कार्यक्रमस्य संयोजकः श्रीलालबहादुरशाखीराष्ट्रीयसंस्कृतविश्वविद्यालये पौरोहित्यविभागस्य वरिष्ठाचार्यः प्रो रामराज उपाध्यायवर्यः भविष्यति।











